________________
सुमिराजकृतायाः 1
भूमिका
सप्ततिशतस्थानप्रकरणवृत्तिप्रशस्तिप्रेक्षणेन तु श्रीराज विजयसूरीणां श्रीदेवविजया
अन्तेवासिन इत्यवगम्यते । सा चेत्थम् -
46
श्रीसुधर्मादितः पट्ट - पारम्पर्यात् तपोगणे | राज्ये श्रीविजयसेन - सुरीन्द्राणां चिरायुषाम् ॥ १ ॥ यौवराज्ये च तत्पट्ट - पूर्वभूधैकभास्वताम् । श्रीमद्विजयदेवाख्य-सूरीणां शोभितत्रियाम् ॥ २ ॥ वर्षे श्रीविक्रमाद् व्योम - वाह शशि ( १६७० ) सम्मिते | माघश्वेततृतीयायां, तिथौ तरणिवासरे ॥ ३ ॥ श्रीराज विजयसूरीश्वराणां शिष्यशेखरः । श्रीदेवविजयप्राज्ञः, परोपकृतिकर्मठः ॥ ४ ॥ श्रीसंप्प्रतिशतस्थान' - वृत्तिमेतामची करत् । जयादिविजयाद्द्वान:, तच्छिष्यः समशोधयत् ॥ ५ ॥ श्रीकीर्तिसागरप्राज्ञो, जय । दिविजयश्च सः ।
२
इत्येताभ्यां च सम्भूय, भूयः संशोधिता सौ ॥ ६॥ पुनर्मात्सर्यमुत्सार्य, शोध्यतां श्रीधनैरियम् ।
आचन्द्रार्क चिरं जीयाद्, वाच्यमाना च साधुभिः ॥ ७ ॥ " सूयपुरस्थमोहनलालजी जैन ज्ञान भाण्डागारस्य रामायणप्रतिप्रान्ते निम्नलिखितोल्लेखेपि श्रीराज विजयेति नाम
“ स्वस्ति श्रीमत्तपागच्छे भट्टारकयुगप्रधान श्री ५ श्री विजयदा नसूरिशिष्य आचार्यश्री राजविजयसूरिशिष्य पं० देवविजयगणिभिः विरचितं समाप्तं चेदं रामायणं ॥ छै ।। "
५५
१६६० तमे वैक्रमाब्दे राजनगरे विरचितस्य श्रीयशोविजय जैन ग्रन्थमालायां प्रसिद्धस्य पाण्डव चरित्रस्य निम्नलिखिता मान्ता प्रशस्तिरष्युपस्करोतीममभिप्रायम् । सा चेत्थम् - " स्वस्ति श्रीमत् ' तपागच्छे, भट्टारकपुरन्दराः । श्रीविजयदानसूरि- रे-प्रवरा गुणशालिनः ॥ १ ॥ श्रीराजविजयसूरिः शिष्यस्तेषां गुणाग्रणीर्जयति । तच्छिष्यदेव विजयः प्राप्तोत्तमपण्डितश्रीकः ॥ २ ॥
१ इयं श्री सोमतिलक सूरिकृत सप्ततिशतक स्थानप्रकरणस्य वृत्तिर्या मुद्रापिता श्रीआत्मानन्दसंसदा । २ अनेन वसीयते यदियं वृत्तिः संशोधिता श्रीजयविजयैः श्रीकीर्तिसागरैश्च ।
३ अयमुल्लेखो वर्तते भाण्डारकर प्राच्यविद्या संशोधन मन्दिरस्थप्रतौ-
66
सकलभट्टारक श्री विजयप्रभसूरिस्व (रीश्व) रशिष्यमहोपाध्यायश्री ५ श्री उदय विजयगणिशिष्यगणितत्त्वविजयलिंषितं श्री द्वीपबन्दिरे भील (न) वलक्ष्य (क्ष) पार्श्वप्रसादात् संवत् १७५३ वर्षे वैशाष सुदि ३ दिने मंगलबारे”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org