SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५४ स्तुतिचतुर्विशतिकायाः [श्रीशोमनविजयविषुषामाम् । इमे भवद्गुरवः तपागच्छीयश्रीविजयदानसूरीश्वरशिष्यश्रीविजयराजसरिविनेया इति मतिभाति धर्मरत्नमञ्जूषाप्रशस्तिगतनिम्नलिखितपद्यावलोकनेन " श्रीविजयसेनसूरी-श्वराणां गुणशालिनाम् । राज्ये विजयमानानां, प्रभूतप्रभुताभृताम् ॥ ९॥ तत्पट्टे कैरवाराम-सुधाधामसमत्विषाम् । श्रीविजयदेवसूरी-श्वराणां यौवराज्यके ॥ १०॥ रसर्तुदर्शनचन्द्र( १६६६)-वत्सरे विक्रमार्कतः । ज्येष्ठमासे सिते पक्षे, पञ्चम्यां गुरुवासरे ॥ ११ ॥ श्रीविजयदानसूरी-श्वरशिष्यशिरोमणेः । श्रीविजयराजसूरेः, शिष्यः सरलमानसः ॥ १२ ॥ हिताय मन्दबुद्धीनां, सुबोधाय सुबुद्धीनाम् । चकार 'कुर्लक'व्याख्या , श्रीदेवविजयः सुधीः ॥ १३ ॥-कुलकम् तच्छिष्यः शेमुषीमुख्यो, नितान्तविनयान्वितः । स्वबुद्धया जयविजयः शोधयामासिवानिमाम् ॥ १४ ॥ गाम्भीयौदार्यधैर्यादि-गुणमाणिक्यरोहणाः । वैराग्यवासितस्वान्ताः, विश्वविख्यातकीर्तयः ॥ १५ ॥ चतुर्विद्याविदः श्रीमद्-वाचकश्रेणिशेखराः। जयन्ति जगति श्रीमत्-कल्याणविजयाह्वयाः ॥ १६॥-युम्मम् तत्पादपङ्कजद्वन्द्व-सेवाहेवाकिमानसैः। श्रीसङ्घविजयाह्वानः, श्रीधर्मविजयाह्वयैः ॥ १७ ॥ नैककोविदकोटीरैः, सर्वशास्त्रविशारदैः। विचार्य प्रतिभावये-रियं सम्भूय शोधिता ॥ १८॥" अनेनावबुध्यते यदुत वृत्तिरियं संशोधिता श्रीजयविजय-श्रीसङ्घविजय-श्रीधर्मवि. जयादिमुनीश्वरः। १ श्रीदेवेन्द्रसूरिकृतदानादिकुलकस्येयं वृत्तिर्या पण्डितहीरालालैः प्राकाश्यं नीता ऐसवीये १९१५ तमेऽब्दे । २ कुलकेऽस्मिन् दान-शील-तपो-भावरूपश्चतुर्विधो धर्मो व्याख्यातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy