SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ४८ स्तुतिचतुर्विशतिकायाः { श्रीशोमनअन्यान्यटीकानों मुद्रापणेन सङ्कलितायां टीकायां अशुद्धिगवेषणं न दुष्करं विद्वज्जनानामिति मत्वा केषुचित् स्थलेषु मयोपेक्षा कृता । ग्रन्थगौरवभयात् कचित् प्रश्नार्थकाचह्नन कुत्रचित् अयं पाठः प्रामादिक इत्युल्लेखेन, कुहचन इदं प्रतिभाति इति टिप्पणेन, कचन पाठान्तरमृचनेन कतिपया अशुद्धस्थला निर्दिष्टा मया । परन्तु न चेयं सरणिः समाश्रिता सर्वत्र । ___ अत्र सहर्ष निवेदयामि यदुतानया पद्धत्या याः काश्चन त्रुटयोऽस्यां टीकायां तस्थुः तासां निवारणं कर्तुमभिलपन्ति मुनिवर्यश्रीचतुरविजया दक्षिणविहारिमुनिरत्नश्रीअमरविजयानामन्तेवासिनस्तक्रियमाणशुद्धिपत्रे। __ तुरीया टीका शिशुबोधिनीति सान्वर्थनामिका श्रीदेवचन्द्रमुनिवरैर्व्याख्याता । इयं तु लघुतमा पूर्वटीकाऽपेक्षया इत्यत्र विशिष्टता । अत एव अस्या अन्तिमं स्थानं मुद्रापणे, अस्मात् कारणात् तृतीयटीकायाः स्थानोपन्यासहेतुरनुमीयते आलोकवद्भिः।। यत्र यद विवरणं आवश्यक तत्र प्रायः तादृगेव व्यराचि एभिः टीकाकारैः। कचित अमिधानचिन्तामणिकोशवाक्यानि दृष्टिपथमवतरन्ति, क्वचिदेव तु पाणिनीयसूत्राणि । किमियं द्वितीयटीकायाः सङ्केपः उत द्वितीयटीका अस्या विवरणमिति निर्धारणे नास्म्यलं, टीकारचना. समयाद्युल्लेखाभावात् टीकाकारयमलसत्तासमयसमानत्वात् । एवं टीकाचतुष्कस्य विशिष्टता मां प्रतिभाति । अपरश्च तद्गतसाक्षीभूतपाठाना सूचीपत्रादपि पृथक् काचिदवगम्यते । शेषा अप्यशेषा विशिष्टताः तद्गौरवं चावबोधन्ति बुद्धिबलाः । न च तत्र मादृशानां मन्दमेधसा प्रवेशः। icolee १ एतट्टीकाप्रतिः ५४ पत्रात्मिका, तत्र प्रत्येकपत्रपार्च ३३ वर्णात्मिकत्रयोदशपतिसङ्कलितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy