________________
भूमिका
मुनिराजकत्तायाः]
काव्योत्पत्तिः
कवीश्वराणां काव्यचातुर्यस्य प्रदर्शनार्थ असाधारणोपयोगताया वा प्रकटनार्थ विविधा किंवदन्ती सूच्यते अन्यान्यग्रन्थकारैः, सत्येयं वार्ता न वा इति मननीय मनीषिभिः । प्रभावकचरित्रान्तर्गता काव्योत्पत्तिस्तु यथा निर्दिष्टा उपरितने स्थले ।
स्तुतिचतुर्विंशतिकायाः टीका:--- (१) श्रीधनपालकवीश्वरकृता । इयमधुना मुद्रापिता मदीयगूर्जरभाषान्तरादिसमेते
स्तुतिचतुर्विंशतिकेतिनाम्नि ग्रन्थे श्रीआगमोदयसमित्या । (२) पूर्वमुनिवर्यविरचिता अवचरिः । इयमपि मुद्रापिता उपरितने ग्रन्थे । ( ३ ) श्रीधर्मचन्द्रशिष्यराजमुनिरचिताऽवरिः ४१५श्लोकमिता ११५१(१)
तमसांवत्सरीया। (४) श्रीजयविजयगणिविरचिता विवृत्तिः । (५) श्रीसिद्धिचन्द्रगणिगुम्फिता वृत्तिः। (६) श्रीसौभाग्यसागरसूत्रिमूत्रिता टीका। (७) श्रीदेवचन्द्रमुनीशसन्दृब्धा शिशुवोधिन्याख्या व्याख्या। (८) श्रीकनककुशलगणिकृता व्याख्या। (९) डॉक्टरेत्युपाधिविभूषितयकोबीमहाशयकृतो जर्मनभाषानुवादः। (१०) श्रावकभीमसीमाणेककृतो गूर्जरभाषानुवादः । अयं प्रकरणरत्नाकरस्य तृतीये
विभागे मुद्रापितः। १ अस्याः एका हस्तलिखिता प्रतिः अमदावादस्थविद्याशालाभाण्डागारे वियते । सा १५१७ तमे संवत्सरे लिपीकृता वर्तते । _ रॉयल एशियाटिक सोसायटी' इतिनामकसंस्थाया हस्तलिखितसूचीपत्रे श्रीहेमचन्द्रेण श्रीशोभनस्तुतिटीका व्यरचीत्युल्लेखः, परन्तु अयं प्रामादिक इति स्पष्टमवगम्यते तत्पतेर्दर्शनेन । इयं तु काव्यमालायां सप्तमगुच्छके मुद्रापिताऽवचूरिः कर्तृनामरहिता याऽधुना मुद्रापिता आगमोदयसमित्या, यद्यपि एतत्सप्तपत्रात्मिकायां प्रतौ क्वचित् पाठान्तराणि दृश्यन्ते ।
२ इयमवचूरिर्मुद्रापिताऽवचारतो भिन्ना इति प्रतिभाति जैनग्रन्थावलीनिर्दिष्टतद्रचनासमयावलोकनेन । निर्णयस्तु तत्प्रतिदर्शनेनैव भविष्यति।
__३ अयमुल्लेखः क्रियते 'जैन गुर्जर कविओ' (पृ० ५८३ )संज्ञकपुस्तकाधारेण । एतट्टीकाप्रतिप्राप्तिस्थानस्य तत्रानिर्देशात् विज्ञप्तास्तत्प्रयोजकश्रीयुतमोहनलालास्तत्सूचनार्थम् । परन्तु स्मरणपथं नावतरतीत्युत्तरमदायि तैः, अतो गवेषणीयं विशेषज्ञैः सत्यासत्यमस्योल्लेखस्य ।
४ अधुनैव मे दृष्टिपथमागता पण्डितहीरालालहंसराजकृतगूर्जरभाषान्तरोपेता श्रीशोभन ( मुनीश्वर ) कृतजिनस्तुतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org