________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमम
मजनारम्भे गोचरचर्यया समागतं तन्मुनिद्वन्द्वमवलोक्य सिद्धेऽन्नपाके तब्राह्मण्योपढौकिते दध्नि मुनिभ्यां 'व्यतीतकियदिनमेतद् ? ' इति पृच्छ्यमाने धनपालः 'किमत्र पूतराः सन्ति ?' इति सोपहासमभिदधानो 'व्यतीतदिनद्वयमेतद् ' इति ब्राह्मण्या निर्णीय प्रोक्तं ताभ्यां ' पूतराः सन्तीत्यत्र' इत्यभिहिते स्नानासनात् तदर्शनार्थमुत्थाय तत्रागतः सन स्थालेऽधिरोपितदधिसन्निधौ यावद् यौवकपुम्भेऽधिरूढैस्तद्वर्णजन्तुभिर्दधिपिण्ड इव पाण्डुरतामालोक्य जिनधर्मे जीवदयाप्राधान्यं तत्रापि जीवोत्पत्तिज्ञानवैदग्ध्यं, यतः ( संसक्तनियुक्तौ)
" मुंग्गमासाइपमुहं विदलं कच्चम्मि गोरसे पडइ ।।
ता तसजीवुप्पत्ती, भगंति दहिए तिदिणुवरिए ॥ १॥" तजिनशासने एवेति निश्चित्य शोभनमुनेः शोभनबोधात् सम्यक्त्वप्रतिपत्ति पुरस्सरं सम्यक्त्वं भेजे ।"
कथारत्नाकरे ( त० ५, क०३७ ) विशेषस्त्वेवम्
" अथ तदोकसि स्थिते मुनौ धनपालोऽपि रन्त्वा गृहमागत्य विहितदेवार्चनश्च यावद् भोतुमुपविशति तावत् स मुनिः स्मृतः अशनार्थमाकारितश्च । तस्मिन्नेवाहनि केनापि वैरिणा धनपालस्य भोजनान्तर्विषं दत्तम् । तस्मिन्नेव मोदके दीयमाने सविषोऽयामिति मुनिनाऽपि निषिद्धे किमन्तर्विषमस्ति इति भापयसि ? धनपालेनोक्ते विषयस्तीति मुनिराह । कथं ज्ञायते इति तदाज्ञया तापोष्णोदके मोदकखण्डे निक्षिप्ते शुकपिच्छोपमं तन्नीरम् (बभूव)। तदीक्ष्य विस्मितो धनपाल: अहो अद्य अनेन महात्मना अहं जीवित इति विशेषतस्तस्मिन् तुष्टः । कथमिह विषं भवता ज्ञातमिति (पृष्टः) तं शोभनो मुनिराह
" दृष्ट्वाऽन्नं सविषं चकोरविहगो धत्ते विरागं दृशो
हंसः कूजति सारिका च वमति क्रोशत्यजस्रं शुकः। विष्टां मुश्चति मर्कटः परभृतः प्राप्नोति मृत्युं क्षणात्
क्रौञ्चो माद्यति हर्षवांश्च नकुलः प्रीतिं च धत्ते द्विकः॥" तेने मोदकं विलोक्य पञ्जरस्थोऽयं चकोरो नयने न्यमीलयत् , निकटस्थोऽयं मर्कटोऽपि विष्टां चकार इति लक्षणैर्मया विषमज्ञायीति निशम्य विस्मितः स तस्मिन्नेवाहनि मुनिगृहीतमेवान्नं भुक्त्वा गोष्ठी विधातुं मुनिपार्चे गत्वा च शोभनो माता क्वापि दृष्टः ? इति तमप्राक्षीत् , स समीपे
१ सालक्तककार्पासतूलवर्तिकायामित्यर्थः । २छाया
मुद्गमाषादिप्रमुखं द्विदलं अपक्के गोरसे पतति । तदा त्रसजीवोत्पत्तिं भणन्ति दनि त्रिदिनोपरितने॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org