SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः ] भूमिका ३५ 46 पुरा समृद्धिविशालायां विशालायां पुरि मध्यदेशजन्मा ' काश्यप गोत्रः सर्वदेवनामा द्विजो निवसन्........ ........... 99 सम्यक्त्वसप्ततिवृत्तौ उज्जयिनी, प्रभावकचरिते उपदेशकल्पवल्ल्यां उपदेशप्रासादे च धोरा, प्रबन्धचिन्तामणौ विशाला, आत्मप्रबोधे अवन्ती इति नानानामदर्शनात् श्रीशोभनमुनिराज निवासभूमिपरत्वेऽपि शङ्का समुपतिष्ठति, परन्तु " उज्जयनी स्याद् विशालाऽवन्ती पुष्पकरण्डिनी "(अभिधानचिन्तामणी का०४, श्लो०४२) इति पङ्कयवलोकनेनावगम्यते यदुत विशाला अवन्ती उज्जयिनी इति नामान्तराणि । एतेषां कवीश्वराणां सोमश्रीनाम्नी जननी इति ज्ञायते सम्यक्त्वसप्ततिवृत्तेः चतु:सप्ततितमपञ्चसप्ततितमपृष्ठपरिचयात् । उक्तं च तत्र - “ तैस्सासि वेयवेई छकम्मपरो परोवयारकई । विससहपत्तीहो दीहगुणो सोम चंददिओ ॥ ५ ॥ सोमसिरी से भज्जा निरवज्जा वज्जिभज्ज समरूवा । जुहुव्व जीइ वयणं आणंद तिहुअणं सयलं ॥ ६ ॥ तच्छसरसि हंसा वंसवयंसा गुणाण आवासा । दो तणया बुहपणया संजाया जायख्वपहा ॥ ७ ॥ पढमो सिरिधणवालो बालुव्व विभाइ जस्स मइपुरओ । विदारयवरसचिवृत्तमोविस बुहपई नूणं ॥ ८ ॥ बीओ सोहणनामा जस्स कवित्तं विचित्तयं सुणिउं । केहि न विहियहियएहि पंडिएहिं सिरं धुणियं ९ ॥ ९ ॥ " अनेन इदमपि समवलोक्यते यत् श्रीशोमनमुनीशपितृनाम्नि विसंवादनम् । यतोऽत्र सोमचन्द्रेति नाम प्रदर्शितम् । प्रसङ्गन्त उच्यते यत् एतत्स्थाने आत्मप्रबोधस्व प्रथमत्रका सर्वधरेति नाम, नागरगोत्रीयो वैकुण्ठो नाम सूत्रकण्ठ इति कथारत्नाकरे पश्चमतरङ्गे ३८ तमायां कथायां ( पृ० ३६७ ), लक्ष्मीधरेति तु उपदेशप्रासादस्य प्रथमे विभागे त्रयोविंशे व्याख्याने, परन्तु कवीश्वरधनपालेन स्वयं सर्वदेवेति यदसूचि तदेव सत्यं नाम । Jain Education International एतेषां सुन्दरीनाम्नी कनिष्ठभगिनी इति परामृश्यते पाइअलच्छीनाममालायाः प्रान्ते निम्नलिखित (तम) गाथाऽवलोकनेन -- 46 arrate परिणि मग्गे ठिआए अणवज्जे । कज्जे कणि बहिणीए सुन्दरीनामधिज्जाए || " १. सम्यक्त्वसप्ततिवृत्तिकारा अपि ७९ तमे पत्राङ्के धारा शब्द लेखेन धारोज्जयिन्योरैक्यतां सूचयन्ति । तत्रो भयोर्यदन्तरमाधुनिकं तदुपेक्षाऽकारि तैर्न वेति प्रश्नः । २-३ छायार्थं दृश्यतां स्तुतिचतुर्विंशतिकाया गूर्जरोपोद्घातस्य सप्तमाष्टमे पृष्ठे षष्ठं चानुक्रमेण । For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy