________________
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोभन
श्रीदेवर्षिनामधेया मध्यदेशान्तर्गतसङ्काश्य सन्निवेशनिवासिनः विप्रवराः श्रीमतां शोमनमुनीश्वराणां पितामहाः, सर्वदेवाह्वयाः तातचरणाः, धनपालाख्याः श्राद्धवर्याः कवीश्वरा अग्रजबन्धवश्च । इमे शोभननामधेयाः कविवर्याः कातन्त्रचन्द्रव्याकरणवेत्तारः बौद्धार्हततत्त्वज्ञातारः साहित्यसमुद्रपारपारीणाः बालब्रह्मचारिणः जैनदीक्षाधारणधुरीणाः अग्रजबान्धवतः पूर्वं च स्वर्गगामिनः ।
३४
“ आसीद् द्विजन्माऽखिलमध्यदेशे -- प्रकाश सङ्काश्य निवेशजन्मा । अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्षित्वविभूषितोऽपि ॥ १ ॥ शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥ २ ॥ अब्जायताक्षः समजायतास्य, श्लाघ्यस्तनूजो गुणलब्धपूजः । यः शोभनत्वं शुभवर्णभाजा, न नाम नाम्ना वपुषाऽप्यधत्त ॥ ३ ॥ कातन्त्रचन्द्रादिततन्त्रवेदी, यो बुद्ध बौद्धाईततत्त्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव ॥ ४ ॥ कौमार एव क्षतमारवीर्य श्रेष्ठां चिकीर्षन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् ॥ ५ ॥ अभ्यस्यता धर्ममकारि येन, जीवाभिघातः कळयाऽपि नैव । चित्रं चतुःसागरचक्रकाश्चि-स्तथापि भूर्व्यापि गुणस्वनेन ॥ ६ ॥ एतां यथामति विमृश्य निजानुजस्य
तस्योज्ज्वलां कृतिमलङ्कृतवान् स्ववृत्त्या । अभ्यर्थितो विद्वता त्रिदिवप्रयाणं
तेनैव साम्प्रतकविर्धनपालनामा ॥ ७ ॥ "
श्रीशोमनमुनीश्वराणां काश्यपगोत्रमित्यवगम्यते प्रबन्धचिन्तामणि ( ८ ८ तमपृष्ठ ) गत
निम्नलिखितोल्लेखेन
१-२ उक्तं च प्रभावकचरिते
Jain Education International
"
इतश्च मध्यदेशीय-सङ्काश्यस्थानसंश्रयः । देवर्षिरस्ति देवर्षि - प्रभावो भूमिनिर्जरः ॥ तस्य श्रीसर्वदेवाख्यः, सूनुरन्यूनविक्रमः । ब्राह्मण्यनिष्ठया यस्य तुष्टाः शिष्टा विशिष्टया ॥ तस्य पुत्रइयं जज्ञे, विज्ञेशैरर्चितक्रमम् । आय: श्रीधनपालाख्यो, द्वितीयः शोभनः
पुनः ॥” - श्री महेन्द्रसूरि प्रबन्धे ( श्लो० ९-११ )
For Private & Personal Use Only
www.jainelibrary.org