________________
राजकृतायाः ]
भूमिका
३३
हे पूज्य ! तवाहं कर्मकरः, त्वं पृथिवीपतिर्मम स्वामी वसुधालोकान् जानासि । हे देव ! ' चिरा ' कस्मादस्मान् न सम्भालयसि ? यतस्त्वं मे 'दानीं ' ( मेदिनीं ) सर्व (र्वा ) मपि वेत्सि ततो मां दुःखितं (नं ) कथं न वेत्सि १ इत्यर्थः ॥ १ ॥
एवं विविधभाषात्मके 'जैनसाहित्ये सति तस्य दिग्दर्शनमपि दुष्करम्, किमु तदा तत्सुविशेषः परिचयः १ तत्रापि उपलब्धानुपलब्धसमस्तसाहित्यस्य तु का कथा ? यतः किं तस्य सर्वाङ्गा परिचितिः सम्भवति शिरसा क्षोणीधरं विभित्सोः, वसुन्धरां कराभ्यामुच्चिक्षिप्सोः, शेषशिरः स्थितं मणि जिघृक्षोः, पयोनिधिं पाणिभ्यां प्रतितीर्षोः, कुशाग्रेण तं मित्सोः, चन्द्रं चिक्रमिषोः, सुराचळं चरणेन चिकम्पयिषोः, गत्या गन्धवाहं जिगीषोः, चरमार्णवपयः पिपासोः, खद्योतपोततेजोभिर्मार्तण्डमण्डलमभिबुभूषोरपि ? ।
अन्ते आर्यसाहित्यं सभ्यताया आदर्शः, कामदा कल्पलतिका, सञ्जीविनी औषधी, चारचिन्तामणिः, समुन्नतेर्महामन्त्रम्, सफलतायाः साधनम्, सिद्धेः सूत्रमित्युद्घोषणापुरस्सरं विरमामि विवेचनादस्मात् ॥
अधुना प्रस्तूयते प्रस्तुतस्तुतिकारसम्बन्धी विषयः । इमे तावत् सुगृहीतनामधेयाः स्तुतिचतुविंशतिका प्रणेतृत्वेन महाकविकोटिं प्राप्ताः श्रीशो मन मुनीश्वराः कदा कं मेदिनीमण्डलं मण्डयामासुरिति प्रश्नो विचार्यते । तत्र साधनानि तु इमानि -
१ श्रीधनपाल कवीश्वरमणीतायाः स्तुतिचतुर्विंशतिटीकाया आदिमे श्लोका येषु द्वित्रातिलकमञ्जरी प्रस्तावेऽपि वर्तन्ते ।
२ श्रीधनपाल गुम्फिताया: पाइअलच्छीनाममालायाः प्रान्तभागः ।
३ श्रीप्रमाचन्द्रसूरिप्रणीतप्रभावक चरितान्तर्गतः श्रीमहेन्द्रसूरिप्रबन्धः ।
४ श्रीमेरुतुङ्गसूरि सन्दृब्ध प्रबन्ध चिन्तामणेः भोजभीममबन्धः ।
५ श्रीहरिभद्रसूरिसूत्रित सम्यक्त्वसप्ततेः श्रीसङ्घतिलकसूरिकृता २६ तमगाथावृत्तिः ६ श्रीरत्नशेखरसूरिरचिता श्राद्धप्रतिक्रमणवृत्तिः ।
७ श्रीरत्नमन्दिरगणिकृता उपदेशतरंगिणी + भोजप्रबन्धश्च ।
८ + वाचकेन्द्र श्रीइन्द्र हंसगणिकृता उपदेशकल्पवल्ली ( शा० ३, प० २९ ) । ९ * श्रीहेमविजयगणिप्रणीते कथारत्नाकरे पञ्चमतरङ्ग ३८तमा कथा ।
१० श्रीविजयलक्ष्मीसूरिरचिते उपदेशप्रासादे त्रयोविंशं व्याख्यानम् । ११ श्रीजिनला मसूरिविरचितस्य आत्मप्रबोधस्य प्रथमः प्रकाशः एतेषूपलब्धेषु साधनेषु कचित् विसंवादताऽपि दरीदृश्यते । तस्मात् स्तुतिचतुर्विंशतिकाया धनपालीयद्वत्तेरवतरणं प्रमाणरूपेण स्वीक्रियते । तद्गतनिम्नलिखितपद्यप्रेक्षणेन स्पष्टीभवति यदुत
१ अत्र केवलं श्वेताम्बर साहित्यस्य स्थूलाऽऽलेखिता रूपरेखा । दिगम्बर साहित्यमपि गौरवास्पदं, परन्तु ग्रन्थगौरवमयात् तस्य दिग्दर्शनमपि न कारितं मया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org