________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोभनइत्येतैर्जेनानां संस्कृतसाहित्यप्रियत्वं स्वमताग्रहराहित्यं गुणग्राहित्वं परोपकारित्वं च प्रकटीभविष्यति करतलगतामलकवद् सहृदयहृदयानां विद्वद्वर्याणाम् । ____ अनेन स्फुटीभविष्यति मतिमता जैनसंस्कृतसाहित्यसौन्दर्य, तिग्मकिरणोदयात् च तिमिरसंहतिरिव तिरोभविष्यति पण्डितंमन्यानां मान्यता यदुत जैनानां साहित्यं प्रायः प्राकृतभाषानिबद्धं वर्तते, गीवाणगिरि गुम्फितं तु स्वल्पतमं तदप्यजैनकविकृतितुलनायामगौरवास्पदम् ।
इदमपि अवस्थाप्यं हृदये सहृदयदुत संस्कृतसाहित्यपादपपोषकैः जैनः विविधभाषासाहित्यसेवाऽप्यकारि । तथाहि-प्राचीनगुर्जरवाङ्मयस्य पोषका जैनाः, प्राकृतभाषाबन्धुरं साहित्यं प्रायः तत्सेवाफलमेव, कर्नाटकीयादिगिरासु बहुधा सुरचितानि चान्यान्यपुस्तकानि सार्वसाधुभिः। पारसीयसाहित्यस्यापि सेवा व्यधायि जैनमुनीशैः। निदर्शनार्थ विलोक्यता श्रीजिनभद्रसूरिकृतं पारसीयभाषायां निबद्धं श्रीजिननमस्कारकाव्यम्
" दोस्ती वांद ! तुरा न वासइ कुया हामाचुनी द्रोग हिसि
चीजे आमद वेसिदो दिलुसराब्दी चुनी कीवरः । तंबाला रहमाण ! वासइ चिरा दोस्तीनिसस्ती इरा ।
__अल्लाल्लाह ! तुरा सलामु बुचिरुक् रोजी मरामे दहि ॥१॥" काव्यार्थस्तु यथा
दोस्ती वांद!०, दोस्ती-अनुरागः ष्वाद !- स्वामिन् ! तुरा-तव, न वासइ-नास्ति, कुयाकास्मिन्नपि हामाचुनी-सर्व, द्रोग-असत्यम् हिसि-तिष्ठति, आद्यपदार्थः । यतः चीजे या (यः?) कोऽपि आमद-आजगाम, वेसिदो-युष्मत्पार्थे, दिलुसराबूदी-सज्ज्ञानभव्यमानसः, चुनी-ईशः कीबरः --कर्मकरमात्रोऽपि, द्वितीयपदम् । तथा तंबाला-तस्योपरि रहमाण !-वीतराग ! वासइ इति विद्यते, चिरा-कृतः दोस्तीनिसस्ती-रागानुबन्ध इरा-अतः कारणात् (तृतीय पदम् )। अल्लाल्लाह' पूज्यवाचको शब्दौ, तुरा-तुभ्यम्, सलामु-नमस्कारः,बुचिरुक्-महती, रोजी-विभूति, मरामे-मह्यं दहि इति देहि ॥
इति श्रीजिनभद्रसूरिकृतपारसीबद्धश्रीजिननमस्कारकाव्यार्थः॥
अपरश्च समीक्ष्यतां श्रीजिनप्रभसरिभी रचितस्य ११पद्यात्मकस्य सवृत्तिकस्य ऋषभदेवस्तोत्रस्य निम्नलिखितं प्रथमं पद्यम्___x" अल्लाल्लाहि ! तुराहं कीम्बरु सहिया नु तूं मरा वाद ।।
दुनी पकसामे दानं वुस्मारइ बुध ! चिरा नह्मम् ॥ १॥" अवचूरिस्तु यथा
१ सटीकस्यास्य काव्यस्य श्रीविजयधर्मलक्ष्मीज्ञानमन्दिरसत्का प्रतिरलाभि मया इतिहासतत्त्वमहोदधिश्रीविजयेन्द्रसूरिद्वारा । अतस्तेषामुपकार्योऽस्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org