________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमनकाव्येषु श्रीदेवविमलगणीनां हीरसौभाग्यम्, मल्लधारीयश्रीहेमचन्द्ररिप्रणीतं नामेयनेमिमहाकाव्यम्, श्रीनयचन्द्रसूरीणां हम्मीरमहाकाव्यम्, श्रीअमरचन्द्रसूरीणां पद्मानन्दमहाकाव्यम् , कविकुञ्जरश्रीहेमविजयगणीनां विजयप्रशस्तिः, उपाध्यायश्रीमेघविजयानां सप्तसन्धानमहाकाव्यं चास्वादयन्तु काव्यरसिकाः।
पादपूर्तिरूपकाव्येषु श्रीहर्षप्रणीतनैषधीयचरिततुरीयचरणपूर्तिरूपं श्रीशान्तिनाथचरित्रं, श्रीमाघकविकृतशिशुपालवधसमस्यारूपं श्रीदेवानन्दाभिधानकं महाकाव्यं च श्रीमेघविजयोपाध्यायपादानां कस्य कं न कम्पयति ।
वैयाकरणाः अवलोकयन्तां कलिकालसर्वज्ञश्रीहेमचन्द्ररिप्रणीतं 'सिद्धहेमव्याकरणं भाकृतसंस्कृतद्वधाश्रयकाव्ये धातुपारायणं, श्रीबुद्धिसागरसूरिकृतं बुद्धिसागरव्याकरणं, श्रीविद्यानन्दसूरिसूत्रितं विद्यानन्दव्याकरणम्, श्रीमलयगिरिसूरिसन्डब्धं मलयगिरिशब्दानुशासनं, श्रीजिनप्रमसूरिसूत्रितं श्रेणिकचरिताख्यं व्याश्रयकाव्यं च।।
कोशविदस्तु श्रीहेमचन्द्रसूरिवर्यविरचितां अभिधानचिन्तामणि अनेकार्थसङ्ग्रह, श्रीहर्षकीर्तिसूरिकृतां शारदीयनाममालां, श्रीजिनमद्रगणीनां पञ्चवर्गपरिहारनाममालां च मीमांसाभूमिमवतारयन्ताम् । १* उक्तं च केनचिद् विपश्चिता स्वमित्रं प्रति
" भ्रातः ! संवृणु 'पाणिनि 'प्रलपितं ' कातन्त्र 'कन्था वृथा __मा कार्षीः कटु 'शाकटायन 'वचः क्षुद्रेण 'चान्द्रे 'ण किम् ? । कः ' कण्ठाभरणा 'दिभिर्बठरयत्यात्मानमन्यैरपि ?
श्रूयन्ते यदि तावदर्थमधुराः श्रीहेमचन्द्रोक्तयः॥" २ * श्रीमेरुतुङ्गसूरिभिरपि धातुपारायणं निरमायीति
"काव्यं श्रीमघदूताख्यं, षड्दर्शनसमुच्चयः । प्रवृत्तिर्बालाव(ल ?)बोधाख्या, धातुपारायणं तथा ॥ ४ ॥ एवमादिमहाग्रन्थनिर्मापणपरायणाः ।
चतुराणां चिरं चेतश्चमत्काराय येऽन्वहम् ॥ ५॥" इति अभयदेवसूरिसन्दृयश्रीसप्ततिकाभाष्यटीकाप्रशस्तिकाव्यतोऽनुमीयते । ३ * यदाहुः प्रमालक्ष्मकर्तारस्तत्प्रशस्तौ
" श्रीबुद्धिसागराचार्यै-वृत्तैयाकरणं कृतम् ।
अस्माभिस्तु प्रमालक्ष्म, वृद्धिमायातु साम्प्रतम् ॥" ४ * उक्तं च श्रीमुनिसुन्दरसूरिभिः गुर्वावल्यां (श्लो० १७१)
"विद्यानन्दाभिधं येन, कृतं व्याकरणं नवम् ।
भाति सर्वोत्तमं स्वल्प-सूत्रं बह्वर्थसङ्ग्रहम् ॥" ५* सवृत्तिके शब्दानुशासनेऽत्र नामाख्यातकृदाख्यं प्रकरणत्रयं नवदशषट्पादप्रमाणमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org