________________
निराजकृतायाः ]
छन्दोविदो विदन्तां श्रीहेमचन्द्रसूरीश्वरमणीतं छन्दोऽनुशासनं श्रीअमरचन्द्रसूरिवर्यविरचितां छन्दोरत्नावलीं मुक्तावलीं च ।
तत्त्वज्ञानविषये वाचकवर्यपञ्चशतीप्रकरणप्रणेतृश्री उमास्वातिकृतं स्वोपज्ञभाष्यसमलङ्कृतं श्री सिद्धसेन सूरिप्रमुखमुनिवर्यविरचितटीकासमलङ्कृतं तत्त्वार्थाधिगमसूत्रं, चिरन्तनाचार्य कृतः सर्वसिद्धान्तप्रवेशः, श्रीहरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः श्रीगुणरत्नमुनीशकृतवृत्तिविभूषितः, श्रीहारिभद्रीयः शास्त्रवार्तासमुञ्चयः स्वोपज्ञवृत्तिसमन्वितः न्यायाचार्य न्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिकृतव्याख्याविस्तृतः मध्यस्थभावप्रदीपकश्च समालो
भूमिका
च्यन्तां समालोचकैः ।
तर्कशास्त्रविदस्तु तर्कयन्तु तार्किकमण्डलमूर्धमणिश्रीसिद्धसेनदिवाकरकृतं न्यायावतारं सम्मतितकं च श्रीअभयदेवसूरिकृतवृत्तिविभूषितं, श्रीहरिभद्रसूरिकृतामने कान्त जयपताकां, श्रीवादिदेवसूरीणां स्याद्वादरत्नाकरं, श्रीमलवादिकृतं नयचक्रवालं ( द्वादशारं ) श्रीसि वर्षिमहोपाध्याय श्रीयशोविजयकृतव्याख्यासमेतं, श्रीयशोविजयवाचकसत्तमसूत्रितां नव्यन्यायशैलीपूर्वक जैनतर्कभाषामुखां ग्रन्थशतीं वा ।
૧
गणितज्ञा निरीक्षन्तां श्रीमहावीराचार्यकृतं गणित सारसङ्ग्रहं, श्रीपतिकृतगणितस्योपरितनां श्रीसिंह तिलक सूरिकृतां गणिततिलकवृत्तिं, * श्रीमहेन्द्रसूरिरचितं श्रीमलयेन्दुकृतटीकासमेतं पञ्चाध्यायप्रमितं यन्त्रराजं च ।
विकटनाटक कोटीपटीयांसः प्रेक्षन्तां प्रेक्षावन्तः प्रबन्धशतप्रणेतॄणां श्रीरामचन्द्रसूरीणां नाट्यदर्पणम् ।
गूर्जर देशस्य इतिहासान्वेषणतत्पराः दृष्टिसाफल्यं कुर्वन्तु प्रभावकचरित्र - प्रबन्धचिन्तामणि -- प्रबन्धकोशप्रमुख ग्रन्थावलोकनेन ।
वैद्यमनोविनोदाय श्रीहर्षकीर्त्तीया योगचिन्तामणिः, वैद्यवल्लभः श्रीहस्तरुचीनां, योगमाला श्रीसिद्धर्षीणां, श्रीकण्ठसूरीणां हितोपदेशश्रालम् ।
Jain Education International
ज्योतिष्कमस्तकं विधूनयति श्रीमेघविजयगणीनां वर्षप्रबोधो मेघमहोदयेत्यपराभिधानः, पाद्मप्रभयो भुवनदीपकः, नारचन्द्रीयो जन्मसमुद्रः, मानसागरीया पद्धतिः, श्रीहेमहंसकृतविस्तुतवार्त्तिकालङ्कृता श्री उदयप्रभीयाऽऽरम्भसिद्धिः, सुप्रसिद्धो नारचन्द्रश्च । प्राश्निकजिज्ञासां पिपर्ति श्रीनरचन्द्रसूरिकृतं प्रश्नशतकं, श्रीहेमप्रभसूरिरचितस्त्रैलोक्यप्रकाशः, श्रीपद्मप्रभसूरिप्रणीतो भुवनदीपकश्च ।
* चूडामणिविषये चूडामणिभावं बिभर्ति जयपाहुडेत्यपराभिधानं सवृत्तिकं प्रश्नव्याकरणम्, चन्द्रोन्मीलनम्, प्रश्नचूडामणिः, अक्षरचूडामणिश्च ।
१ एतन्मुद्रणालय पुस्तिका मया क्रियमाणा वर्तते ।
For Private & Personal Use Only
www.jainelibrary.org