SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिकायाः [ श्रीशोभन " सथिसिरिकमलिणीगहणदिणणायगं नेमिजिणणायगं सिद्धिसुहदायगं । यमतिभक्तिस्फुरत्पुलकदन्तुरतनु किनिकरो नमत्यमलमतिवैभवः ॥ १॥" न च पर्याप्तमनेन जैनमुनिवराणां शब्दभावविज्ञानपाण्डित्यं यस्य दिग्दर्शनमपि सम्पूर्णतया न कारितं मया ग्रन्थगौरवभयात् । अनेकार्थकाव्यकर्गकर्मठत्वं जैनानां जिज्ञामुभिर्विलोक्यतां विपश्चिद्भिः श्रीवीरजिनस्तवनं १२पद्यप्रमितं शार्दूलविक्रीडितच्छन्दसि रचितं श्रीसोमतिलक मूरिभिः । एतस्य प्रत्येकपद्यस्य २५ अर्थाः । आद्यं पद्यं तु यथा * " श्रीसिद्धार्थनरेन्द्रवंशकमलाशृङ्गारहार ! प्रभो ! श्रीमंदीर ! भवन्तमन्तरुदितप्रीत्या विमुक्तयै स्तुवे । निःशेषानयि नाभिनन्दनमुखांस्तीर्थङ्कराँन् श्रीगुरून प्रत्येकं युगपत् फ्रेमाच्च दर्शभिः श्लोकैरिहन्तिर्गतः ॥ १॥" कर्तृनामगर्भितं चरमं चित्रकाव्यं त्वस्य पडरचक्रवन्धबन्धुरमष्टदलकमलकलितं वा, तच्चैवम्* “ यस्त्वा श्रीजिन ! सूदितोन्मदमनश्चौरः प्रणौति श्रमं जित्वाँ सोढगरिष्ठकष्टदहनं रोचिष्णुभालद्युत । देत्ताऽमर्त्यपवित्रसंमद ! पठेन् कान्तं विशडूंः स्तवं वन्द्यान्हीय भवान् जिनाः प्रदेदतामन्येऽपि तस्मै शिवम् ॥१२॥" एतदन्तश्च कविनामसम्बद्धाः : श्रीसोमतिलकसूरिविरचितं ' इत्येते १२ वर्णाः अरषट्कं च ३-६-१४-१७ अक्षरेष्वन्तर्भाविताः सन्ति ते च स्थापनाविशेषादवसेयाः। अनेकार्थकाव्येषु वरीवर्ति श्रीसोमप्रभसूरिप्रेमुखमुनिराजप्रणीता शतार्थी । अष्टादशव्याकरणविद्भिः पण्डितश्रीलामविजयगणिभिः श्रीयोगशास्त्रस्य निम्नलिखितप्रारम्भिकपद्यस्य १ प्रमुख शब्देन सूच्यन्ते योगशास्त्रस्य ‘परिग्रहारम्भमग्नाः ( प्र० २ , श्लो० १०), 'प्राप्तुं पारमपारस्य (प्र०२, श्लो० ८५)' इति पद्यस्य च शतार्थीकर्मकर्मठश्रीमानसागरोपाध्याय-जयसुन्दरमुनीशादयः । २ श्रीधर्मदासगणिकृतोपदेशमालाया निम्नलिखितगाथायाः ___“दोससयमलजालं पुव्वरिसिविवजिअं जईवंतं। अत्थं वहासे अणथं कीस अणत्थं तवं चरसि ? ॥ ५१॥" शतमर्याः कृता श्रीउदयवल्लभगणिभिः । रत्नाकरावतारिकायाः प्रथमपद्यस्याप्यर्थशतं वर्तते इति जैन. ग्रन्थावल्यां (पृ०७८)। श्रीविजयविमलगाणिकृतबन्धहेतूदयत्रिभङ्गीप्रकरणटीकादौ " तेषां राज्ये प्राज्ये विबुधा निर्मल शतार्थिबिरुदभृतः । श्रीहर्षकुलगणीन्द्रा विबुधवतंसा बभूवर्यं ॥ ४ ॥ -इति पयावलोकनेनापराऽपि शतार्थी ज्ञायते परं नाघावधि मे दृष्टिगोचरीबभूव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy