________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमनपद्यममाणं साधारणजिनस्तवनं प्रकरणरत्नाकरस्य चतुर्थे विभागे (पृ० २७) च प्रसिद्धम् । अत्र तु साक्षादवलोक्यतां कामक्रीडाच्छन्दास वृत्तचतुष्टयमितायाः (३) श्रीऋषभजिनस्तुतेराचं पद्यम्*"श्रीनाभेयं योगिध्येयं देहज्योतिःसारङ्ग, सर्वश्रेयःश्रेयःपद्या गत्या माद्यत्सारङ्गम् । कर्मक्षोणीजन्मश्रोणीश्रेणिध्वंसे सारङ्गं, नौम्युत्कण्ठाव्याप्तस्वान्तः सौवस्थाम्ना सारङ्गम्॥१॥"
अपरश्च विलोक्यता (४) प्रतिपद'सरस्वती'शब्दयमकान्वितस्य श्रीयुगादिजिनस्तवनस्य एकोनविंशतिपद्यात्मकस्य महोपाध्यायश्रीचारित्ररत्नगाणिशिष्यपं०जिनमाणिक्यगणिविरचितस्य निम्नलिखितं द्वितीयं पद्यम्* " सरस्वतीलब्धवरावगाहो, सरस्वतीवेश ! तेव स्तवे स्वाम।
सरस्वतीमेष परस्तवैक-सरस्वतीणामपि तौरयामि ॥१॥" (५) श्रीरत्नशेखरमाभिः प्रतिपदान्तर्गत' नवखण्ड 'शब्दयमकमयं घोघामण्डननवखण्डपार्श्वजिनस्तवनं ८पद्यात्मकं निरमायि । तस्येदमाचं पद्यम्
"जय प्रभो! त्वं नवखण्डपृथ्वी-प्रख्यातकीर्ते ! नवखण्डमूर्ते।।
भव्याब्जभानो ! नवखण्डसंविद्-विश्वेश्वर ! श्रीनवखण्डपार्श्व! ॥१॥" (६) श्रीसकलचन्द्रकृते 'सिद्धं हृदये'तिप्रारम्भिके ३० पद्यात्मके सावचूरिके श्रीपार्श्वनाथस्तवे 'हरिहरि'शब्दसङ्कलितं निम्नलिखितं पद्यद्वयम्
* " हरिहरिचलचित्तगुप्तिगुप्तं, हरिहरिदङ्गमयूषराजमानम् ।
कमठहरिहरिहरिप्रियाद, हरिहरिणातपवारणत्रयाप्तम् ॥ २७॥ इरिहरिपरिचर्योपयुक्तं, नखहरिहारि सुदीप्रलोकलेखम् ।
हरिहरिभयभीतिदं च पार्थ, हरिहरिचन्दनसोदरं नमामि ॥२८॥" (७) देवेन्द्ररनिश मितिश्लेषस्तोत्र-'यूयं युवा त्वमितिश्लेषस्तुत्यादिरचयितृश्रीधर्मघोषसूरिप्रणीता श्रीस्तोत्ररत्नाकरस्य प्रथमे भागे (पृ० १-७) मुद्रिता अष्टमहायमकसमन्विता चतुर्विंशतिजिनस्तुतिः, यस्या आदिमं पद्यमिदम्
" जय वृषभ ! जिनौभिष्ट्रयसे निम्ननाभि-र्जडिमरविसनौभियः सुपर्वाङ्गनाभिः ।
तम इह किले नाभिक्षोणिभृत्स्नुनाभि-द्रुतभुवनमनाभि शान्तिसम्पत्कुनाभिः ॥१॥" (८) अक्षरद्वितयत्रितयपुनरावृत्तिमयं सप्तश्लोकमितं श्रीस्तोत्ररत्नाकरद्वितीयभागे (पृ. ८६) मुद्रितं श्रीक्षमाकल्याणसन्दब्धं श्रीपार्श्वजिनस्तवनम् । तस्यायमादिमः श्लोकः
१ प्रथमनवफ्यानां प्रतिपादस्य प्रारम्भे, द्वितीयनवपद्यानां तु अन्ते, तृतीयनवपद्यानां पुनः प्रारम्भे सरस्वतीपदं वियते। २ उक्तं च गुर्वावल्या ( श्लो० २१६ )
" श्रीशारदालब्धवरो निशैकया-ऽष्टभिः स कृत्वा यमकैरलङ्कृताः । स्तुतीर्जिनानां ज्ञमदज्वरौषधी-नबूबुधद् गूर्जरराजमन्त्रिणम् ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org