________________
स्तुतिचतुर्विंशतिका
[ २४ श्री वीर
दे० व्या० - सरभसमिति । हे अम्बिके । सुतराम् - अत्यर्थे यथा स्यात् तथा भव्यलोकं त्वं अव-रक्षेत्यन्वयः । ' अव रक्षणे ' धातुः । ' अव ' इति क्रियापदम् । का कर्त्री ? । त्वम् । कं कर्मतापन्नम् ? । भव्यलोकम् । किंविशिष्टं भव्यलोकम् ? । परम् - उत्कृष्ट, संप्राप्त सम्यक्त्वात् । किंविशिष्टा त्वम् ? । " परमवसुतरा#जा ' परमवसुतरौ - अतिशयेन प्रकृष्टतेजसौ अङ्गजी - पुत्रौ यस्याः सा । ययपि देव्याः उरसः पुत्राभाव:, तथापि प्राग्भवीयावेताववसेयौ । पुनः किंविशिष्टा ? । ' आरावसन्नाशितारातिभारा' आरावेण शब्देन सन्नाशितो-नाशं प्रपितः अरातिभारः - शत्रुसमूहः यया सा तथा । पुनः किंविशिष्टा ! | भासिनी -भासनशीला । ( पुनः किंविशिष्टा ? ) 'हारतारा' हारवत् तारा- उज्ज्वला । पुनः किंविशिष्टा ? | 'बलक्षेमदा ' बलं च क्षेमं च ददातीति बलक्षेमदा । पुनः किंविशिष्टा ! | असन्ना-अखिन्ना । न सन्ना असन्नेति विग्रहः । पुनः किंविशिष्टा ? ' शितारातिभा शितारस्येव - तप्तीकृतपित्तलस्येव भा - कान्तिः यस्याः सा तथा । आरस्य पित्तलस्य अतिक्रान्ता भा दीप्तिर्यया सा तथा । पुनः किंविशिष्टा ? । अमदा-मदरहिता । नास्ति मदो यस्याः सा तथेति विग्रहः । पुनः किंविशिष्टा ? | आसितो - उपविष्टा । कस्मिन् ? | गजारौ - सिंहे । किंविशिष्टे गजारौ ? | 'नीहारतारावलक्षे' नीहारो-हिमं तारा-नक्षत्राणि तद्वद् वलक्षे-धवले । “वलक्षधवलार्जुनाः” इत्यभिधानचिन्तामणिः (का० ६, श्लो० २९ ) । पुनः किंविशिष्टे ? । 'क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटे ' क्षणरुचिरुचिराभिः - विद्युद्दीप्तिभिः उरुभिः चञ्चन्तीभिः सटाभिः सङ्कटः- उत्कृष्टो यः कण्ठो - गलकन्दलस्तेन उद्भटे-कराले । हे ' सरभसनतनाकिनारीजनो रोज पीठीलुठत्तारहारस्फुरद्रश्मि सारक्र माम्भोरुहे ! ' सरभसंवेगेन नतः - प्रणतो यो नाकिनारीजनः- अमरवधूवर्गः तस्य उरोजपीठीषु-स्तनपर्यङ्किकासु लुठतां - इतस्ततश्वलतां हाराणां स्फुरद्रश्मिभिः सारे-कर्बुरे क्रमाम्भोरुहे-चरणकमले यस्याः सा तस्या आमन्त्रणम् । हे अजिते !अतिरस्कृते ! । हे राजिते ! - शोभिते ! | कस्याम् ? । भासि - दीप्तिविषये । हे अम्ब ! हे मातः ! | अम्बादीनां धौ न्हस्वः (सा० सू० २०१ ) इति सूत्रेणात्वन्हस्वः । एतानि सर्वाणि देव्याः सम्बोधनपदानि ॥ इति चतुर्थदण्डकार्थः ॥
२९४
इति श्रीशत्रुञ्जयकरमोचनायनेकसुकृतकारिमहोपाध्यायश्री ५ श्रीभानुचन्द्रगणिशिष्येण पण्डितप्रकाण्डमण्डलाखण्डलेन पण्डितश्रीश्री १०८ श्रीदेवचन्द्रेण कृतायां शोभनस्तुतिशिशुबोधिनीटीकायां समाप्तिमागाच्चतुर्विंशतितमजिनस्तुतिः ॥ शुभं भवतु ॥ श्रीरस्तु ॥ श्री ॥ श्री ॥ छ ॥ श्री ॥ श्री ॥
१ मूलकाव्ये तु ' संस्थिते ! ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org