________________
स्तुतिचतुर्विंशतिकायाः
[श्रीशोमनश्रीसुमतिजिनस्तुतिः समस्ति । तथाविधलाटानुप्रासविभूषिता वीरस्तुतिः श्रीराजसागरशिष्यरविसागरमुनीश्वरै रचिता या ख-परिशिष्टे विद्यते ।
एतावदेव यमकमयं जैनसंस्कृतसाहित्यं समस्तीति न वाच्यम्, अन्यान्यग्रन्थेषु अपि विविधयमकावलोकनात् । तथाहि
(१) श्रीचारित्ररत्नगणिकृताः प्रतिपदं चतुःपञ्चषडक्षरपुनरावृत्तिरूपयमकमया वसन्ततिलकाच्छन्दसि विरचिताः २८पद्यप्रमाणाश्चतुर्विंशतिजिनस्तुतयः । निदर्शनार्थ श्रीसुपार्श्वजिनस्तुतिर्यथा
* “ स्वामिन् ! सुपार्श्व ! भगवन् ! जितकोप ! माने
प्रताडिमानसजले केतकोपमान !। "स्तोता प्रयाति तव देव ! मैं कोऽपमान
मायः *शिवं जगति यस्य "हि कोमा नै १ ॥१॥"' (२) प्रत्येकचरणे द्वधक्षरपुनरावृत्तियमकयमितं श्रीपार्श्वजिनस्तवनं श्रीसोमसुन्दरसूरिकृतं सावचूरिकं ९पद्यात्मकम् । तस्य चायं पद्यम्
* “ विभाँति यद्भांस्तरुणाऽरुणाऽरुणा
किमङ्गमेघे रुचिरों चिराचिरी । तैवात्र ते पार्श्व ! महेम हे महे
श्वराऽयितुं निर्विपदे पदे पदे ॥१॥" (३) एवंविधयमकात्मकं श्रीफलवर्धिपार्श्वस्तोत्रं श्रीसूरचन्द्रर्षिभिः प्रणीतं श्रीस्तोत्ररत्नाकरद्वितीयभागे समस्ति यस्यायं पद्यमेवम्
श्रेयोमयं ही बैलमालमालमों
ह्लादावलीदं संकरंकरं करम् ॥ श्रेयोऽग्रलक्ष्म्याः प्रवरं वरं वरं
पार्श्वभजेऽहं सकलं फैलङ्कलम् ॥ १॥ १ पादान्तयमकमयानि प्रचुराणि पद्यानि वर्तन्ते चतुर्विंशतिकायाम् । एवंविधयमकविशिष्टं श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रं च विद्यते यत् काव्यमालायाः सप्तमगुच्छके मुद्रितम् । एतादृक् २७ पद्यप्रमित उप. जातिच्छन्दोरचितो विहरमाणविंशतिजिनस्तवोऽपि समस्ति यः श्रीस्तोत्ररत्नाकरद्वितीयभागान्ते दृश्यते । श्रीजिनप्रभसूरिप्रणीतं त्रिचतुरक्षरपुनरावृत्तियुतमुपजातिच्छन्दोबद्धं मदीयगूर्जरानुवादसहितं श्रीपार्श्वजिनस्तोत्राष्टकं तु विलोक्यते चतुर्विशतिकायां पञ्चदशे षोडशे च पृष्ठे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org