________________
स्तुतिचतुर्विशतिका
[ २३ श्रीपाच
अत्यर्थम् । पुनः किविशिष्टा या! । 'जिता' जयनशीला । किं कर्मतापनम् ? । 'आरम् ' अरिवृन्दम् । यद्वा 'जितार' पारिन्द्रराजस्यापि विशेषणं क्रियते। पुनः किंविशिष्टा या ? । अविषमा:-सौम्या विषभृत:सर्पाःत पर तेषां वा भूषणानि यस्याः सा ‘अविषमविषभभूषणा' । पुनः किंविशिष्टा या।। 'अभीषणा' अक्रूरा । पुनः किंविशिष्टा या? । भी:-भयं तेन (तया) हीना-रहिता भीहीना । पुनः किंविशिष्टा या। कुवलय-नीलोत्पलं, तस्य वलयं-मण्डलं तद्वत श्यामो-नीलो देहो यस्याः सा 'कुवलयवलय. श्यामदेहा' नीलकृष्णयोरक्यत्वात्। पुनः किंविशिष्टा या। अमदा-अनौद्धत्यकारिणी ईहा-चेष्टा इच्छा-वाञ्छा वा यस्याः सा 'अमदेहा' । एतादृशी वैरोट्या त्वां त्रासाद्-भयात् त्रायतां-रक्षतात् । इति पदार्थः ।।
अथ समासः-तारं तेजो यस्याः सा तारतेजाः । सन् चासौ असिश्च सदसिः, सदसिं बिभर्तीति सहसित् । अलकानों अन्ताः अलकान्ताः, कान्ताश्च ते अलकान्ताश्च कान्तालकान्ताः, कालाः कान्तालकान्ता यस्याः सा कालकान्तालकान्ता। अपगता अरयो यस्मात् स अपारिः, तं अपारिम् । पारिन्द्राणां राजा इति पारिन्द्रराजः, तं पारिन्द्रराजम् । 'राजाहासखिभ्यष्टच' (पा० अ०५, पा० ४, सू०९१)। “पारिन्द्रो वाहसःशयुः" इति हैमकोषः (का०४, श्लो० ३७१)। सुष्टु रवो यासां ताः सुरवाः, सुराणां वध्वः सुरवध्वः, सुरवाश्च ताः सुरवध्वश्च सुरवसुरवध्वः, सुरवसुरवधूभिः पूजिता सुर
अप्रजिता। अरीणां सम्रहः आरं, आरंजितं येन स जितारः, तं जितारम् । न विषमः अविषमः, विषं बिभर्तीति विषभृत्, अविषमश्चासौ विषभृत् अविषमविषभृत्, अविषमविषभृद् एव भूषणं यस्याः सा अविषमविषभृद्भूषणा; यद्वा अविषमविषभृतः भूषणं यस्याः सा अविषमविषभृभूषणा । न भीषणा अभीषणा । भिया हीना भीहीना । अहीनां इनः अहीनः, अग्न्या चासौ पत्नी च अग्न्यपत्नी, अहीनस्य अग्ज्यपत्नी अहीनारयत्नी । कुवलयानां वलयं कुवलयवलयं, कुवलयवलयवत् श्यामो देहो यस्याः सा कुवलयवलयस्यामदेहा । न मदा अमदा , अमदा ईहा यस्याः सा अमदेहा । अस्यां स्तुती सर्वपदेषु चित्रयमकालकारः । इति तुर्यवृत्तार्थः ॥ ४॥
श्रीमत्पार्श्वजिनेन्द्रस्य, स्तुतेरर्थो लिचीकृतः । सौभाग्यसागराख्येन, सूरिणा ज्ञानसेविना ।।
त्रयोविंशतितमश्रीपायोजनस्तुतिः ॥ ४॥२३॥५२॥ व्या०-यातेति । सा वैरोट्या देवी त्वां-भवन्तं त्रासात्-आकस्मिकभयात् अरं-शीघ्रं यथा स्यात् तथा त्रावता-रक्षतादित्यन्वयः।'त्रा रक्षणे' धातुः । 'त्रायताम्' इति क्रियापदम् । का की। बैरोट्या देवी। कंकर्मतापमम् त्वाम् । (कस्मात् ?) त्रासात् । किंविशिष्टं त्वाम् । 'जितारं अरीणां समूहः आरं, जितंभग्नं आरं येन स तम् । यत्तदोर्नित्याभिसम्बन्धाद् या वैरोट्या देवी सदसि-सभायां तारतेजाः-उत्कृष्टतेजाः वर्तते इत्यनुषः। किंविशिष्टा देवी । याता-आरूढा। कम् ? । पारिन्द्रराजं-अजगराधीशं, पारिन्द्राणां राजा तं पारिन्द्रराज इति 'षष्ठीतत्पुरुषः'।'राजाहःसखिभ्यष्टच' (पा० अ०५, पा०४, सू०९१) इति टच्प्रत्ययेम रूपसिद्धिः।"चक्रमण्डल्य जगरः पारिन्द्रो वाहसः शयुः” इत्यभिधानचिन्तामणिः (का. ४,श्लो०३७१)। किंविशिष्टं पारिन्द्रराजम् । 'अपारि अपमता अरयः-शत्रवो यस्य स तम् । पुनः किंविशिष्टा देवी? । 'सदसिभूत' सन्तं-शोभनं असिं-खड़ग बिभर्तीति तथा । क्विपप्रत्ययान्तम् । पुनः किंविशिष्टा? । 'कालकान्तालकान्ता' काला:-कृष्णा: कान्ता:-मनोज्ञा: अलकानां - के शानां अन्ता यस्याः सा तथा । पुनः किं विशिष्टा? । 'सरबसरवधूपूजिता'सुष्टु-शोभनो रवः-शब्दो यास तास्तथा सुराणां वध्वः सुरवध्वः इति पूर्व 'षष्ठीतत्पुरुषः',
१'कुबळ्यानि-नीलोत्पलानि तेषां वलयं ' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org