________________
२६८ स्तुतिचतुर्विशतिका
[२३ श्रीपार्श्वअविषमाः ' तत्पुरुषः । अविषमाश्च ते विषभृतश्च अविषम ० 'कर्मधारयः । । अविषमविषभृतो भूषणं यस्याः सा अविषम० 'बहुव्रीहिः।। (न भीषणा अभी० 'तत्पुरुषः ।) भिया हीना भीहीना ' तत्पुरुषः । अहीनां इनः अहीनः 'तत्पुरुषः' । अग्न्या चासौ पत्नी च अग्न्यपत्नी 'कर्मधारयः । अहीनस्याग्यपत्नी अहीना० ' तत्पुरुषः । कुवलयानां वलयं कुवलय. 'तत्पुरुषः । कुवलयवलयवत् श्यामः कुवल. 'तत्पुरुषः । कुवलयवल यश्यामो देहो यस्याः सा कुवल. 'बहुव्रीहिः । न विद्यते मदो यस्याः सा अमदा 'बहुव्रीहिः' । अमदा ईहा यस्याः सा अमदेहा 'बहुव्रीहिः । इति काव्याः ॥ ४॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीपार्श्वपरमेश्वरस्य स्तुतेर्व्याख्या ॥ २३ ॥ सि० १०यातेति । हे भव्यात्मन् ! सा अहीनाग्र्यपत्नी अहीनो--धरणेन्द्रः तस्याग्र्यपत्नीमुख्यराज्ञी वैरोट्या देवीत्यर्थः । पद्मावतीत्यपि स्तुतिस्तोत्रादौ धरणेन्द्रपत्नीति दृश्यते [सिद्धसेनसूरिणा मतैका. धिक्यविंशतिस्थानप्रकरणे ( विशे स्थाने )
" देवीओ चक्केसरी १ अन(जि)या २ दुरिया( रि) ३ कालि ४ महाकाली ५ । अच्चुभ ६ संता ७ जलो(जाला) ( सुतारया ९ सोअ १० स(सि)विच्छा ११ ॥ पवरा १२ पि(विज)यं १३ कूसा १४ पन्नयत्ति(पणत्ती) १५ निव्वाणि १६ अच्चुया १७ धरणी १८ ।
वैरुट्ट १९ द(छु)त्त २० गंधारी २१ अंबा( ब ) २२ पउमावई २३ सिद्धा २४॥" इति वचनात् तथा हेमाचार्येणाप्येवमुक्तम् ( अभि० का० १, श्लो० ४६ )
" नरदत्ताऽथ गान्धार्य-म्बिका पद्मावती तथा।।
सिद्धायिका चेति जैन्यः, क्रमाच्छासनदेवताः॥" ___ इति ] परं श्रीभगवतीसूत्र-प्रवचनसारोद्धार-पार्श्वचरित्रादौ कुत्रापि तथा दर्शनामावात् धरणेन्द्रस्य पद्मावती पत्नीति न प्रतिमाति । तेनैतद् विचार्यमार्यधुर्यैरिति । [ पञ्चमाङ्गस्य दशमशतकस्य पञ्चमोद्देशके इत्युक्तम्-" धरणस्त णं मंते ! नागकुमारिंदस्त नागकुमाररणो कति अग्गमहिसीओ पन्नत्ताओ ? ( अज्जो ! छ अग्गमहिप्तीओ पन्नत्ताओ ) तंनहा-अला. १ सक्का २ सतरा ३ सोदामणी ४ इंदा ५ घगविजुत्ता ६, तत्थ णं एगमेगाए देवीए छ छ देविसहस्सा परिवारो प०, पभ गं ताओ एगमेगाए देवीए अन्नाई छ छ देविसहस्साई परियारं विउवित्तए " इत्याद्युक्तम् । ] त्वां-मवन्तं त्रासाद-मयात् त्रायतां-रक्षतु इत्यर्थः । ' त्रैङ् दैङ् पालनयोः । इति धातो: ' आशीःप्रेरणयोः । ( सा० म० ७०३ ) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् । ' अप .' ( सा० सू० १९१)। 'ऐ आय् ' ( सा० सू० ४७ )। ' स्वरहीनं० । ( सा० सू० ३६ )। तथाच 'त्रायताम् । इति सिद्धम् । अत्र त्रायताम् ' इति क्रियापदम् । का की ? । अहीनाग्र्यपत्नी । कं कर्मतापन्नम् । त्वामे । कस्मात् ! । त्रासात् । सेति तच्छब्दयोगाद् यच्छन्दयोजनामाह-या अहीनाग्यपत्नी पारिन्द्र
१ कोऽयं सूरिरिति जिज्ञासातृप्त्यथै दृश्यता श्रीएकविंशतिस्थानप्रकरणस्य मुनिश्रीदेवविजयलिखिता प्रस्तावना (पृ.१-२) । २ 'सामा' इति पाठस्तत्रस्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org