________________
जिनस्तुतयः] स्तुतिचतुर्विशतिका
२६७ श्रीवैरोट्यायाः स्तुतिः--
याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता___ऽपारि पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भी----
हीनाऽहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ ४ ॥ २३॥ -खग्. ज०वि०--यातेति । हे भव्यात्मन् ! सा ' अहीनाग्र्यपत्नी । अहीन:-धरणेन्द्रः तस्य अश्यपत्नी-पट्टराज्ञी वैरोट्यादेवीत्यर्थः, त्वां-भवन्तं त्रासात्-भयात् त्रायतां--क्षत्विति क्रियाकारकप्रयोगः। अत्र 'त्रायताम्' इति क्रियापदम् । का की ? ' अहीनाग्यपत्नी कं कर्मतापन्नम् ? ' त्वाम् ' । कस्मात् ? ' त्रासात्' । सेति तच्छब्दयोगाद् यच्छब्दयोजना माह-या अहीनाम्यपत्नी पारिन्द्रराज-गजेन्द्र (अजगरन्द्रं ?) याता-गता प्राप्ततियावत् । अत्र 'अस्ति' इति क्रियापदम् । का की ? 'या' या कथंभूता ? ' याता'। कं कर्मतापन्नम् ? 'पारिन्द्रराजम् ।। कथंभूतं पारिन्द्रराजम् ? ' अपारिं । अपगतवैरिणम् । यतः पुनः कथं ? 'जितारं' जितं-पराजितं आरं-अरीणां समूहो येन स तथा तम् । अहीनाग्यपत्नी पुनः कथंभूता ? 'तारतेजाः' उज्ज्वलप्रभा । कस्याम् ? ' सदसि सभायाम् । पुनः कथं ? 'सदसिभृत् । शोभनतरवारिधरा । पुनः कथं० ? 'कालकान्तालकान्ता' काला:-श्यामाः कान्ता:-कमनीयाः अलकान्ताः-कुरुलाग्राणि यस्याः सा तथा । पुनः कथं० ? 'सुरवसुरवधूपूजिता ' सुरवा:सुस्वराः याः सुरवध्वो-देवाङ्गन्नास्ताभिः पूजिता-महिता । (कथम् ?) ' अरं' अत्यर्थम् । पुन: कथं० ? — अविषमविषभृद्भूषणा' अविषपा:-सौम्याः विषभृत:-सर्पाः त एव भूषणं-शृङ्गारो यस्याः सा तथा । पुनः कथं० ? 'अभीषणा' अरौद्रा । पुनः कथं ? ' भीहीना' भयरहिता । पुनः कथं० १ 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहस्तद्वत श्यामो देहो यस्याः सा तथा । पुनः कथं० १ — अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा ॥
अथ समासः-तारं तेजो यस्याः सा तार० 'बहुव्रीहिः' । संश्वासावसिश्च सदसिः 'कर्मधारयः'। सदसिं बिभर्तीति सद० 'तत्पुरुषः'। अलकानामन्ता अलकान्ताः 'तत्पु-रुषः'। कान्ताश्च ते अलकान्ताश्च कान्ता० 'कर्मधारयः' । कालाः कान्तालकान्ताः यस्याः सा कालकान्तालकान्ता बहुव्रीहिः । अपगता अरयो यस्य सोऽपारिः। बहुव्रीहिः' । तमपारिम्। पारिन्द्राणां पारिन्द्रेषु सुराणां वध्वः सुरवध्वः तत्पुरुषः।।सुरवाश्च ताः सुरवध्वश्च सुर० 'कमेधारयः।। सुरवसुरवधूभिः पूजिता सुरवसुर० ' तत्पुरुषः' । अरीणां समूहः आरं ' तत्पुरुषः । जितं आरं येन स जितारः 'बहुव्रीहिः' । तं जितारम् । विषं बिभ्रतीति विषभृतः 'तत्पुरुषः । न विषमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org