________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका नूता ' इनाः-चक्रवर्त्यादयः प्रभवः सूर्या वा तेषां राजी-श्रेणी तया नूता-स्तुता । " इनः प्रमौ च सूर्ये च " इत्यमरः (१)। कथंभूता ! । ' नूतार्थधात्री । नूतना-नवीना ये अर्था-मावाः तेषां धात्री-धारणशीला, यदिवा नूतान्-नवान् अमिधेयान् प्रयोजनानि वा दधातीति नूतार्थधात्री । " अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु " इत्यमरः ( श्लो० २५०१ )। पुनः किंविशिष्टा ! । ' ततहततमःपातकापातकामा' तमः-अज्ञानं पातकं-पापं अपातः-पातरहितः कामः-कन्दर्पः, तमश्च पातकं च अपातकामश्च — इतरेतरद्वन्द्वः', तता हताः तमःपातकापातकामा यया सा तथा । अपातकामेति पृथग् विशेषणं वा । पात:-पतनं कामः-स्मरः अनयो 'ईन्द्वः' । तथा च न विद्यते पातकामौ यस्याः सा तथेति । पुनः कथम्भूता? शास्त्री। 'शासु अनुशिष्टौ' शास्यते अनेन इति शास्त्रम्, शास्त्रस्येयम् । शास्त्रीशास्त्रसम्बन्धिनीत्यर्थः । तस्येदम्' (पा. अ. ४, पा. ३, सू. १२०) इत्याणू। टिहाणञ्.' (पा० अ० ४, पा० १, सू० १५) इति ङीप् । " निदेशग्रन्थयोः शास्त्रं" इत्यमरः (श्लो० २६९४)। पुनः कथंभूता ? । शास्त्री-शिक्षयित्री ! केषाम् ।। नराणाम् । पुनः कथंभूता ? । 'हृदयहृत् । हृदयं हरति-वशीकुरुते इति हृदयहृत् । अथवा शास्त्रीशेत्येकं विशेषणं, स्त्रीनराणां हृदयहृदिति चैकं विशेषणमिति विशेषणद्वयं ज्ञातव्यम् । तथाहि-कथंमता वाक् ? । शास्त्रीशा-शास्त्रं जानन्ति ते शास्त्रिणः-बहुश्रुताः तेषां ईशा—स्वामिनी, तैः सेवनीयत्वात् । पुनः कथंभूता ! । 'स्त्रीनराणां हृदयहृत् ' स्त्रीणां योषितां नराणां-पुंसां हृदयहृत्-मनोहरा । पुनः कथंभूता ? । ' अयशोरोधिका ' अयशसां-अपकीर्तीनां रोधिकाप्रसरविघातकारिका । पुनः कथंभूता ? । ' अबाधिका ' न बाधत इत्यवाधिका, सर्वेषां सुखजनकत्वात् । पुनः किंविशिष्टा ? । ' आदेया' आदीयते इत्यादेया, ग्रहणयोग्येत्यर्थः । अविसंवादित्वेन सर्वैरपि तहणादिति भावः। वाक् किं कुर्वती । त्याजयन्ती-मोचयन्ती। काम ? । जरां-विस्रताम् । कथम् ! । मनुनमनु' मानवमनु-लक्षीकृत्य, मनुजानां जगं विनाशयतीति फलितार्थः । किं कुर्वती ! । जयन्ती-जयमासादयन्ती, केनाप्यपरिमयमानत्वात् ॥ ३ ॥
सौ० वृ०-सद्योऽसद्योगेति । जैनराजी-तीर्थकरसम्बन्धिनी वाकू-वाणी [ यस्याः सा ते-तव मुदं-हर्ष देयात् इत्यन्वयः। 'देयात् ' इति क्रियापदम् । का की ? । 'वाय' वाणी। 'देयात् ' वितीर्यात, ददातु इत्यर्थः । कां कर्मतापन्नाम् ? । मुदं' हर्षम् । कस्य ? । 'ते' तव । कुत्र ? । ' इह ' संसारे । कथम् ? । 'सद्यः' शीघ्रम् । किंविशिष्टा वाक। जैनराजी' तीर्थकरसत्का। पुनः किंविशिष्टा वाक?। असन्तः-अशोभनाः दुष्टा योगा-मनोवाक्कायव्यापारास्तान भिनत्तीति 'असद्योगभित्,' यद्वा असन्तः-असाधवः तेषां योगः-संयोगस्तं प्रति भिनत्तीति ' असद्योगभित्' । पुनः किंविशिष्टा वाक् !। अमला-निमला:सदर्थत्वात् गमाः-सदृशपाठालापकाः तेषां लयः-स्थानं यस्याः सा 'अमलगमलया' । पुनः किंविशिष्टा वाक ? । इनाः-स्वामिनः चक्रवर्तिबलदेववासुदेवादयः यद्वा इनाः-सूर्यादयः इन्द्रादयो वा तेषां राजी-श्रेणिः तया नूता-स्तुता 'इनराजीनूता' । पुनः किंविशिष्टा वाक् ? । नूतः-स्तुतः नवीनो वा योऽर्थः-सूत्रभाषणं तस्य धात्री-धरणीव धरणी वा मातेव माता 'नूतार्थधात्री'। पुनः किंविशिष्टा वाक । ततं-विस्तीर्ण हतं-निरस्तं तमः अज्ञानं [वा पातकं-पापं यया सा 'ततहततमःपातका' । पुनः किंविशिष्टा वाक? निराकतः पात:-पतनं कामो-मदनो यया सा 'अपातकामा, 'यद्वा नास्ति पातकं-पापं
१ “ इनः सूर्य प्रभो राजा " इति अमरकोशे (को० २५५७) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org