________________
२६४ स्तुतिचतुर्विशतिका
[२३ श्रीपार्थयत्वात् । स्त्रीणा-योषितां नराणां-पुंसां हृदयहृत्-मनोहरा । पुनः कथं० १ 'अयशोरोधिका' अयशसां-अकीर्तीनां रोधिका-प्रसरविघातकारिका । पुनः कथं० १ 'अबाधिका' न पाधाजनिका । ' वा 'शब्दश्वार्थः स च समुच्चयार्थो ज्ञेयः । पुनः कथं० १ ' आदेया ' ग्रामा । वाक् किं कुर्वती ? 'त्याजयन्ती' मोचयन्ती । कां कर्मतापन्नाम् ? 'जरा' विस्रसाम् । कथम् ? 'मनुजमनु' मानवमनु-लक्षीकृत्य । मनुजाना जरा विनाशयतीति फलितार्थः । पुनः किं कुर्वती ? ' जयन्ती' जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् ॥
अथ समासः-न सन् असन् ' तत्पुरुषः । असंश्चासौ योगश्च असयोगः कर्मधारयः। अथवा न सन्तः असन्तः । तत्पुरुषः । असद्भिर्योगः असद्योगः ' तत्पुरुषः । असद्योग भिनत्तीत्यसद्योगभित् ' तत्पुरुषः ।। न विद्यते मलो येषां ते अमलाः 'बहुव्रीहिः' । अमलाश्च ते गमाश्च अमलगमाः 'कर्मधारयः' । अमलगमाना लयो यस्यां सा अमळगम० 'बहुव्रीहिः ।। जिनानां जिनेषु वा राजानः जिनराजाः । तत्पुरुषः । जिनराजानामियं जैनराजी । इनाना राजी इनराजी ' तत्पुरुषः । इनराज्या नूता इनरा० ' तत्पुरुषः । नूताश्च तेऽर्थाश्च नृतार्थाः 'कर्मधारयः। नूतार्थानां धात्री नूना० ' तत्पुरुषः । तताश्च ते हताश्च ततहताः 'कर्मधारयः। न विद्यते पातो यस्य सोऽपात: 'बहुव्रीहिः'। अपातश्चासौ कामश्च अपातकामः 'कर्मधारयः। तमश्च पातकं च अपातकामश्च तमःपा० । इतरेतरद्वन्द्वः । ततहतास्तमःपातकापातकामा यया सा ततहत० 'बहुव्रीहिः ।। पृथग्विशेषणपक्षे तु तते च ते हते च तहते कर्मधारयः' । तमश्च पातकं च तमापातके ' इतरेतरद्वन्द्वः । ततहते तमःपातके यया सा ततह. ' कर्मधारयः'। पातश्च कामश्च पातकामौ ' इतरेतरद्वन्द्वः ।। न विद्यते पातकामौ यस्याः सा अपा०'बहुव्रीहिः । शास्त्रीणामीशा शास्त्रीशा — तत्पुरुषः । स्त्रियश्च नराश्च स्त्रीनराः 'इतरेतरद्वन्दः । तेषां स्त्रीनराणाम् । हृदयं हरतीति हृदयहृत् — तत्पुरुषः । न यशांसि अयशांसि ' तत्पुरुषः ।। अयशसा रोधिका अयशो० 'तत्पुरुषः । न बाधिका अबाधिका 'तत्पुरुषः । इति काव्याः ॥३॥
सि० १०-सद्योऽसद्योगेति । सा जिनराजानामियं जैनराजी जिनराजसंबन्धिनीत्यर्थः वाकवाणी ते-तव मुदं-हर्ष देयात्-वितीयोदित्यर्थः । 'डुदाञ् दाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषेकवचनं यात् । ' दादरे ' ( सा० सू० ८०७ ) इत्याकारस्यैकारः । तथा च ' देयात् ' इति सिद्धम् । अत्र 'देयात् ' इति क्रियापदम् । का की ? । वाक् । कां कर्मतापन्नाम् ! । मुद-हर्षम् । कुत्र ! । इह-अत्र जगति । कथम् ! । सद्यः-तत्क्षणम् । वाक् किमीया। जैनराजी । कथंभूता वाक् ? । 'असद्योगमित्' असत्अशोभनो यो योगः-असद्यापारः तं मिनत्ति सा तथा । यदि वा असन्तो-असाधवः तैः योगः-संसर्गः । मिनत्तीति तथा। असद्योगं मनोवाकायन्यापारं मिनत्तीत्यर्थो वा । पुनः कथंभूता ! । ' अमलगमलया' अमला-निर्मला ये गमाः-सहशपाठाः तेषां लयः-श्लिष्टता यत्र सा तथा । पुनः कथंभूता !। ' इनराजी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org