________________
जिनसतयः
स्तुतिचतुर्विंशतिका
तथति समासः। पुनः किंविशिष्टा? 'असमाना' (नास्ति) सहशो यस्याःसा तथा, धर्मचक्रवर्तित्वात् । यत्तदोनित्यामिसम्बन्धात् । (या) जिनानां राजी भीतिहृत्, वर्तत इत्यध्याहारः। 'वर्तते' इति क्रियापदम् । का की। जिनानां राजी । किं विशिष्टा जिनानां राजी? । 'भीतिहत' भीति-दरं हरतीति भीतिहत् । कस्मिन् ? । 'तरल - तरलसत्के तुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरला: तरलतराः चश्चला इत्यर्थः, ते च ते
नाः केतवः-पताका येषु एतादृशां रङगतां-चलता तुरगाणां व्यालानां-वृष्टदन्तिनां च विशेपेण लग्नाये योधाः-सुभटाःचितो-व्यातोरचितः-प्रारब्धो यो रण:-संग्रामः तस्मिन् ॥ इति द्वितीयवृत्तार्थः॥२॥
जिनवाण्या विचारः
सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी
नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽवाधिका वा
देया देयान्मुदं ते मनुजमनु जरा त्याजयन्ती जयन्ती ॥ ३॥--स्त्रग्. ज० वि०-सद्योऽसद्योगेति । जैनरानी-जिनसम्बन्धिनी वाक्-वाणी ते-तव मुदंहर्ष देयात्-वितीर्यादिति क्रियाकारकान्वयघटना । अत्र देयात् । इति क्रियापदम् । का की ? 'वाक् । कां फर्मतापन्नाम् ? ' मुदम् ।। कुत्र ? ' इह ' अत्र जगति । कथम् ? ' सद्यः । तत्क्षणम् । वाक् किमीया ? जैनराजी ।। कथंभूता ? ' असद्योगभित् । असन्-अशोभनो यो योग:--अकार्यादिव्यापारः तं भिनत्ति सा तथा । अथवा असन्त:-असाधवः तैयोगः-संसर्गः तं भिनत्ति सा तथा । पुनः कथं ? ' अमलगमलया। अमला-निर्मला ये गमाः-सदृशपाठ: तेषां लयः- श्लेषो यस्यां सा तथा । पुनः कथं ? ' इनराजीनूता ' इनाः-चक्रवर्तिवासुदेवादयः पतयः सूर्या वा तेषां राजी-श्रेणी तया नृता-स्तुता । पुनः कथं० ? 'नूतार्थधात्री' नूताःनवीना ये अर्थाः-भावास्तेषां धात्री-धारणशीला । पुनः कथं० ? 'ततहततमःयातकापातकामाः । तता:-अमृताः हताः-क्षयं नीताः तमः-अज्ञानं पातकं-पापं अपात:-पातरहितः काम:कन्दः, तता हतास्तमःपातकापातकामा यया सा तथा । ततहततमपातका अपातकामा चेति विशेषणद्वयं पृथग् व्याख्यायते तदापि युक्तमेव । तथाचायमर्थ:-तते हते तमःपातके यया सा तथा, न विद्यते पातकामी यस्याः सा तथेति । पुनः कथं० ? ' शास्त्री' शास्त्रसम्बन्धिनी । पुनः कथं ? ' शास्त्री' शासिका । केषाम् ? ' नराणाम् । पुनः कथं ? 'हृदयहृत् ' मनोहरा । अथवा शास्त्रीत्येक विशेषणम् । स्त्रीनराणां हृदयहृदिति चैकं विशेषणमिति विशेषणद्वयं व्याख्येयम् । तथा हि शास्त्रिणः-शास्त्रवन्तः बहुश्रुता इत्यर्थः, तेषामीशा-स्वामिनी, तैः सेवनी
१'शानीशा स्त्रीनराणां' इत्यपि पदच्छेदः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org