________________
स्तुतिचतुर्विशतिका
[ २१ श्रीपार्श्व
शिष्टा जिनानां राजी?। 'बोधिका' बोधिदात्री। कस्य? । अमला-निर्मला मतिर्यस्य सः अमलमतिः तस्य अमलमतेः, निर्मलबुद्धिजनस्येत्यर्थः । कथम् ? । 'अलं' अत्यर्थम् । पुनः किंविशिष्टा जिनानां राजी?। न सन्ति व्याधिः-रोगः कालाननं-यममुख-मरणं जननं-जन्म जरा-वयोहानिः-वार्धक त्रासा-आकस्मिकं भयं मानः-अहंकारः एतानि यस्याः सा 'अव्याधिकालाननजननजरात्रासमाना'। पुनः किंविशिष्टा जिनानां राजी ? । 'असमाना' अनन्यसदृशा । पुनः किंविशिष्टा जिनानां राजी ? । 'अतिहृद्या' अतिमनोहरा । पुनः किंविशिष्टा जिनानां राजी ? । 'सा' सा-प्रसिद्धा। तच्छब्दो यच्छब्दमपेक्षते । सा का ? । या जिनानां राजी भीतिहृत्-भयही अस्ति । 'अस्ति' इति पदमध्याहार्यम् । 'अस्ति' इति क्रियापदम् । का की ? । 'या' जिनानां राजी।' अस्ति' विद्यते। किंविशिष्टा या। 'भीतिहत्' । कस्मिन्? । तरलतरा-अतिशयेन चपलतरो लसन्त:-दीप्यमानाः ये केतवः- ध्वजाः रङ्गन्तोवल्गन्तो ये तुरङ्गा-अश्वा येषु व्याला-दुष्टगजाः तेषु व्यालग्ना-आरूढा भेदि टि)ता वा ये योधाः-सुभटाः तैः [आचितरं-प्रकटीकृतं यद् वितरं-प्रचुरं] (आचितं-व्याप्तं यदू रचितं ) रणं-युद्धं तस्मिन् तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालग्नयोधाचितरचितरणे । एतादृशा रणभयत्री जिनानां राजी मा आरात्-दूरात् अन्तिके वा अव्यात्-पायात् । इति पदार्थः॥
अथ समासः-राजर्जावानीव वाणि यस्याः सा राजीववका । अतिशयेन तरलाः तरलतराः, लसन्तश्च ते केतवश्च लसत्केतवः, तरलतराश्च ते लसत्केतवश्च तरलतरलसत्केतवः, रन्तश्च ते तुरताश्च रक्तुरङ्गाः, तरलतरलसत्केतवश्च रङ्गत्तुर काश्च येषु ते तरलतरलसत्केतुरन्तुराः , तरलतरलसत्केतुरङ्गतुरङ्गाश्च व्यालाच तरलतरलसत्केतुरङ्गतुरङ्गव्यालाः, तरलतरलसत्केतुरङ्गतुरच्यालैः व्यालमाः तरलतरलसत्केतुरङ्गत्तुरच्यालव्यालमाः, तरलतरलसत्केतुरङ्गतुरच्यालव्यालमाश्च ते योधाश्च तरलतरलसत्केतुरङ्गातुरच्यालन्यालमयोधाः, तरलतरलसत्केतुरतुरअव्यालव्यालमयोधैः आचितः-आकीर्णः तरलतरलसत्केतुरङ्गतरङ्गव्यालव्यालग्नयोधाचितः, रचितश्चासौ रणश्च रचितरणः, तरलतरलसत्केतुरङ्कत्तुरङ्गव्यालव्यालमयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरतुराव्यालव्यालमयोधाचितरचितरणः, तस्मिन् तरलतरलसत्केतुरङ्गत्तुरच्यालख्यालमयोधाचितरचितरणे । भीति हरतीति भीतिहत् । हृदि भवा हृद्या, हृदि हिता वा हृया, अतिशयेन हृद्या अतिहृद्या । अमला मतिर्यस्य सः अमलमतिः, तस्य अमलमतेः । बोधिं करोति कथयति वा बोधिका। अधिकश्चासौ आमश्च अधिकामः, आधिश्च कामश्च आधिकामम् [ अधिकामाधिकामः ] तस्मात् (अधिकामात ) आधिकामात् (वा)। व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः, न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अव्याधिकालाननजननजरात्रासमाना। नास्ति समान:-तुल्यो यस्याःसा असमाना। इति
दे० व्या०-राजीति । सा जिनानां-तीर्थकरागां राजी-पतिः अलम्-अत्यर्थं यथा स्यात् तथा मां अव्यात्-रक्षात् इत्यन्वयः। 'अव रक्षणे' धातुः। अव्यात्' इति क्रियापदम् । का कीराजीकेवाम। जिनानाम् । के कर्मतापनम् ? | माम् । किंविशिष्टा जिनाना राजी?। 'राजीववक्त्रा' राजीवं-कमलं तबद्ध वक्रं-मुखं यस्याः सा तथा।“ पत्रं राजीवपुष्करे" इत्यभिधानचिन्तामणिः (का•४, श्लो• २२७)। पुनः किंविशिष्ट अतिहया' अतिशयेन हृदयड्गमा । पुनः किंविशिष्टा । बोधिका-बोधजनका। कस्य । 'अमलमतेः । अमला-निर्मला मतिः-बुद्धिः यस्य स तस्य । पुनः किंविशिष्टा ! । 'अव्याधिकालाननजननजरात्रासमाना, व्याधिः-पीडा कालाननं-यममुखं मरणमितियावत् जननं-उत्पतिः जरा-विनता प्रास:आकस्मिकं भयं मानः-स्मयः एतेषां पूर्वं 'द्वन्द्वः' ततो न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्याः सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org