________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका सि. ४०-रानीति । सा जिनानां राजी-तीर्थकृतां पतिः, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, ' अधिकामात् ' अधिकः-उत्कृष्टः यः आमो–ोगः तस्मात्, अथवा आधिः-मानसी व्यथा कामः-कन्दर्पः तस्मात् ( अलम् ) अन्यात्-पायात इत्यर्थः । ' अव रक्षणे ' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । अत्र · अन्यात् ' इति क्रियापदम् । का की? | राजी । केषाम्? । जिनानाम् । कं कर्मतापन्नम्? । मा । कस्मात्? । अधिकामात् आधिकामाद् वा । जिनानां राजी कथंभूता? । 'राजीववक्रा' राजीवानि-कमलानि तद्वद् वर्क -मुखं यस्याः सा तथा । "परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे " इति हेमः ( का० १, श्लो० २२७)। पुनः कथंभूता ।। अतिहया-अतिशयेन हृदयङ्गमा । पुनः कथंभूता है। सारा-उत्कृष्टा । पुनः कथंभूता ! । बोधिका-बोधमनका । कस्य । ' अमलमतेः ' अमला-निर्मला मतिः-प्रज्ञा यस्य स तथा तस्य । पुनः कथंभूता ! । ' अन्याधिकालानरजननजरात्रासमाना' व्याधिः-रोगः कालाननं-यममुखं जननं-जन्म जरा-विस्रसा त्रास:-मयं मानः-अमिमानः, व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः 'इतरेतरद्वन्द्वः', एते न विद्यन्ते यस्याः सा तथा । पुनः कथंभूता ! । ' असमाना' न विद्यते समानः-सदृशः कोऽपि यस्याः सा असमाना। सेति सा का ! | या जिनानां राजी भीतिहृत्-भयापहारिणी, अस्तीति क्रियाध्याहारः । ततः · अस्ति ' इति क्रियापदम् । का कर्वी है। या । कथंभूता । भीतिहत् । कस्मिन् । 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरलाः तरलतराः ते च ते लसन्तो-दीप्यमानाः केतवः-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तो ये तुरङ्गाः-अश्वाः व्याला:-दुष्टदन्तिनः तेषां व्यालग्नाः .-मेटितः कृताधिरोहणा वा, एवंविधा ये योधा-भटाः तैः आचितः-आकीर्णः रचितो-विहितो यो रण:समामः तस्मिन् । कथम् ? । 'आरात्' दूरात् अन्तिकाद् वा । लसन्तश्च ते केतवश्व लसत्केतव इति • कर्मधारयः ।, तरलतरा लसत्केत वो येषां ते तरलतरलसत्केतवः ‘बहुव्रीहिः ', रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तुरङ्गाः ' कर्मधारयः', रङ्गत्तुरङ्गाश्च ते व्यालाश्च रङ्गतुङ्गव्यालाः । इतरेतरद्वन्द्वः', रङ्गत्तुरङ्गव्यालानां ब्यालनाः रगत्तु ० ' तत्पुरुषः ', रङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च रङ्ग 'कर्मधारयः' तरलतरलसत्के तवश्व ते रगत्तुरङ्गव्यालव्यालग्नयोधाश्च तरल ० 'कर्मधारयः', तैः आचितः तरल ० ' तत्पुरुषः ', रचितश्चासौ रणश्च रचितरणः ' कर्मधारयः' । तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरङ्गत्तुरङ्गन्यालव्यालग्नयोधाचितरचितरणः तस्मिन् । भीति हरतीति भीतिहत् ॥ २॥
सौ० वृ०-राजीति । सा जिनानां राजी-तीर्थकृतां श्रेणिः अधिका-उत्कृष्टः आमो-रोगः तस्मात् आधिकामात्, यद्वा आधिः-मानसी व्यथा कामो-विषयः तस्मात् आधिकामात् मा-मां प्रति अन्यात् इत्यन्वयः। अव्यात्' इति कियापदम् । का की ? । 'राजी' । केषाम् । 'जिनानाम् । 'अन्यात् । पायात्-रक्षतात् । कं कर्मतापनम् ? । 'मा' । अस्मच्छब्दस्य द्वितीयैकवचनं मां इत्यस्य विशेषादेशे मा इति निपातः । त्वा मामा' इति सूत्रेण । कस्मात् अव्यात् । 'अधिकामात् ' वा 'आधिकामात्' । किविशिष्टा जिनानां राजी ? । राजीवानि-पद्मानि तद्वत् वाणि-मुखानि यस्याः (सा) 'राजीववका , ' पद्मवदनेत्यर्थः । पुनः किंविशिष्टा जिनानां राजी ?। 'सारा' प्रधाना । पुनः किंवि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org