________________
२०० स्तुतिचतुर्विशतिका
[१८ श्रीअरजिनागमाय नम:
भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्
परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं परमतमोहमानमत नूनमलचन्नमघवतेहितम् ॥ ३ ॥
-द्विपदी ज० वि०-भीमेति । भो भव्याः ! यूयं जिनपतिमतं-सर्वज्ञप्रवचनं नूनं-निश्चयेन आनमत-प्रणमत इति क्रियकारकयोजना । अत्र ‘आनमत' इति क्रियापदम् । के कर्तारः? 'यूयम्' । किं कर्मतापन्नम् ? ' जिनपतिमतम् ।। जिनपतिमतं कथंभूतम् ? ' भीममहाभवाब्धिभवभीतिविभेदि। भीमो-भयङ्करः यो (महान् ) भवाब्धिः-संसारसागरस्तत्र भवा या भीतयः-भियस्तासा विभेदि-भेदनशीलम् । पुनः कथं० ? 'परास्तविस्फुरत्परमतमोहमानं' परमतानि-अन्यप्रवचनानि मोहो-मिथ्यात्वं मान:-अहङ्कारः, परास्ता-निक्षिप्ता विस्फुरन्तः-विज़म्भमाणा परमतमोहमाना येन वद तथा तत् । अथवा विस्फुरन परमतानां मोहमानः । मोहाद्-अज्ञानात् मान:-मिथ्याभिमानः स ‘परास्तः' परं प्रकृष्टं यथा स्यात् तथा अस्तो येन तत् तथा तत् । पुनः कथं? 'अतनूनं' तनु-कुशं ऊनं च शब्दार्थादिभिर्भूनं यन भवति तत् । पुनः कयं० १'घनं ' निविडं, प्रमेयगाढमित्यर्थः । कथं ? ' अलं' अत्यर्थम् । पुनः कथं ? ' अहितं । न श्रेयस्कारि । कस्मै १ 'अघयते । पापान्विताय । पुनः कथं० १ 'अपारमामरनितिशर्मकारणम्' अपाराणि-अपर्यन्तानि यानि मामराणां निवृतेः-निर्वाणस्य धर्माणि-सुखानि तेषां कारणं-हेतुम् । पुनः कथं०? 'परमतमोह। परम-प्रकष्ट तमो इन्ति यत् तत् । यदिवा अतिशयेन परमा:-परमतमा ऊहा-विचारणा यस्मिन् तव तथा तत् । पुनः कथं० १ ईहितम् । अभिलषितम् । केन ? ' अलङ्घनमघवता ' नास्ति लानम्-अभिभवो यस्य तेन मघवता-इन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेन ॥
अथ समासः-अधिरिवाब्धिः । भवश्वासावब्धिश्च भवाब्धिः । कर्मधारयः । पहाथासौ भवाब्धिश्च महा० 'कर्मधारयः।। भीमश्चासौ महाभवाब्धिश्च भीम० कर्मधारयः। भीममहाभवाब्धेर्भवा भीमम० 'तत्पुरुषः' । भीममहाब्धिभवाश्च ता भीतयश्च भीम० 'कर्मधारयः। भीममहामवाधिभवमीतीनो विभेदि भीमम० ' तत्पुरुषः' । तत् भीमम० । परेषां मतानि परमतानि तत्पुरुषः । परमतानि च मोहश्च मानश्च परमत. 'इतरेतरद्वन्दः । विस्फुरन्तश्च ते परमतमोहमानाश्च विस्फु० 'कर्मधारयः' । परास्ता विस्फुरत्परमतमोहमाना येन तत् परास्त. 'पहुव्रीहिः। अथवा मोहात मानो मोहमानः 'तत्पुरुषः। परमताना मोहमानः परमत. 'तत्पुरुष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org