________________
जिनस्तुतयः]
स्तुतिचतुर्तिशतिका
-समूहः तेन कलिता-युक्ता 'सकलकलाकलापकलिता' । पुनः किंविशिष्टा सुरावलिः ? । 'अपमदा' गतदर्पा । पुनः किंविशिष्टं जिनराजविसरम् ।। अपापं-पुण्यं ददातीति अपापदस्तं 'अपापदम्। यद्वा अपगता आपत्-विपत् यस्मात् स अपापत, ते अपापदम् । पुनः किंविशिष्टं जिनराजविसरम् ? । 'अप. कलितापं' (अपगतः) कलितापः-कलहदाघो यस्य सः अपकलितापातं 'अपकलितापम्'। पुनः किंविशिष्टं जिनराजविसरम् । अदारुणं-सौम्यं करोतीति अदारुणकरः, तं 'अदारुणकरम्। पुनः किंविशिष्टा सुरावलिः? । कलो-मधुरः कल:-शब्द:-कलकलस्तेन सहिता 'सकलकला' । एतावता मधुरध्वनिना तीर्थकरगुणगायिनीत्यर्थः । पुनः किंविशिष्टा सुरावलिः ! । 'कला' प्रधाना । इति पदार्थः ।।
अथ समासः-समन्तादिति समन्ततः । समवसरणस्य भूमिः समवसरणभूमिः, तस्यां समवसरणभूमौ । सुराणां आवलिः सुरावलिः । सकलाश्च ताः कलाश्च सकलकलाः, सकलकलानां कलापः सकलकलाकलापः, सकलकलाकलापेन कलिता सकलकलाकलापकलिता । अपगतो मदो यस्याः सा अपमदा । अरुणाः करा यस्य सः अरुणकरः, तं अरुणकरम् । न पापं अपापं, अपापं ददातीति अपापदः, तं अपापदम् । जिनानां राजानो जिनराजाः, जिनराजानां विसरोजिनराजविसरः, तं जिनराजविसरम् । जन्म च जरा च जन्मजरसी, उज्जासिते जन्मजरसी यस्मात् स उज्जासितजन्मजरः, तं उज्जासितजन्मजरम् । कलश्चासौ कलश्च कलकला, कलकलेन सहिता सकलकला । कलिश्च तापश्च कलितापी, यद्वा कलेस्तापः कलितापः, अपगतः कलितापो यस्य सः अकलिताफः, तं अकलितापम् । न दारुणं अदारुणं, अदारुणं करोतीति अदारुणकरः, तं अदारुणकरम् । अपगता आपत् यस्मात् सः अपापत, ते अपापदम् ॥ इति द्वितीयवृत्तार्थः॥२॥
दे० व्या०-स्तीतीति । तं जिनराजविसरं-तीर्थंकरसमूहं अहं नमामि-नमस्कारविषयीकरोमीत्यन्वयः।'णम नमने' धातुः। 'नमामि । इति कियापदम् । कः कर्ता। अहम् । कंफर्मतापनम् । जिनराजविसरम् । “सन्दोहः समुदायराशिविसरवाताः कलापोव्रजः ॥ इत्यभिधानचिन्तामणिः (का ४७)। किंविशिष्टं जिनराजावेसरम् ।' उज्जासितजन्मजरं ' जननं-जन्म जरा-विनसा अनयोः 'इन्द्रः', ततः उज्जासिते-नाशिते जन्मजरे येन स तम् । “प्रोज्जासनं प्रशमनं प्रतिधातनं बधः" इत्यभिधानचिन्तामणिः (का० ३, प्रलो०३४)।पुनः किंविशिष्टम् । 'अरुणकरं। अरुणौ-रक्तौ करो-हस्तौ यस्य स तम् । पुनः किंविशिष्टस् ।'अपकलितापं 'अपगतः कले:-कलिकालस्य कलहस्य वा तापः-सन्तापो यस्माद यस्य वा स तम् । पुनःकिंविशिष्टस् ।'अदारुणकरं दारुणं-रोत्रं तन करोतीत्यदारुणकरस्तम्, रुद्रकर्माकारकमित्यर्थः। यहा नास्ति दारुणा-रुद्रा करा-प्रभा यस्य स तम् । पुन: किंविशिष्टम् । अपापदं। पापं न इत्ते
नित्याभसम्बन्धाद् यं जिनराजविसरं 'सुरावलिः सुराणां-देवानां आवलि:-श्रेणिः समन्तत:-सर्वदिक्तः समवसरणभूमौ स्तौति स्म-अस्तवीत् । 'ष्टुञ् स्तुतौ' धातुः । “स्तौति स्म । इति कियापदम् । का की। सुरावलिः । के कर्मतापनम् । जिनराजविसरस 'समवसरणभूमौ' समवसरणस्त-वप्रत्रयमयस्य भूमिः-भूमिका तस्याम् । कथम् ? । समन्ततः । अव्ययमेतत् । किंविशिष्टा सुरावलिः। 'सकलकलाकलापकालता सकला-समस्ता या कला-विज्ञानं तस्याःछाप:समूहः तेन कलिता-व्याप्ता। पुनः किंविशिष्टा?'अपापत् , अपगता आपदू-विपतिर्यस्याःसा तथा। जिनराजविसरविशेषणमेतदिति कश्चित् तच्चिन्त्यम् । पुनः किंविशिष्टा ।'अपमदा ' अपगतो मदो यस्याः सा तथा । “मदो मुन्मोहसंभेदः" इत्यभिधानचिन्तामाणः (का०२, छो० २२६) । पुनः किविशिष्ठा।।कला-मनोहरा ॥ इति द्वितीयवृत्तार्थः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org