________________
१९८ स्तुतिचतुर्विशतिका
[१८ श्रीअरस० ११)। तथा च ' नमामि ' इति सिद्धम् । अत्र ' नमामि ' इति क्रियापदम् । कः कर्ता ! । अहम् । के कर्मतापन्नम् ! । 'जिनराजविसरम् । जिनानां जिनेषु वा राजानो जिनराजाः तेषां विसर:-समूहः तम् । "समूहो निवहव्यूह-सन्दोहविसरबजाः" इत्यमरः (श्लो० १०६५)। तच्छब्दस्य यच्छब्दसापेसत्वात् तं कम् ! । यं निनरानविसरं समवसरणममौ-समवसृतिभुवि सुरावलिः-देवपतिः समन्ततः-सर्वतः स्तौति स्म-वन्दते स्म, अस्तावीदित्यर्थः । ष्टुञ् स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिम् । · अम् कर्तरि ' ( सा० स० ६९१) इत्यप् । ' अदादेर्लुक्' (सा० स० ८८०) इति लुकू । ओरौ । (सा० सू० १९३) इत्यौकारः। 'स्मयोगे भतार्थता वक्तव्या' (सा० स०७३३) इति भतार्थता । अत्र 'स्तौति स्म' इति क्रियापदम् । का की । सुरावलिः ' सुराणां-देवानां आवलि:सुरावलिः । कं कर्मतापन्नम् ! । यम् । कस्याम् ! । ' समवसरणभूमौ ' समवसरणस्य भूमिः समवसरणभूमिः तस्यां समवसरणभूमौ । कथम् ! । समन्ततः । कथंभूता सुरावलिः । सकलकलाकलापकलिता' सकलेनसमग्रेण कलाकलापेन कलायाः-विज्ञानस्य, " कला शिल्पे कालमेदे " इत्यमरः (श्लो० २७६१), कलापेन-समूहेन कलिता-संयुता । “कलापो भूषणे बर्हे, तूणीरे संहतावपि'' इत्यमरः (श्लो० २५९२) । पुनः कथंभूता ? । 'अपमदा' अपगतो मदो-दो यस्याः सा अपमदा । पुनः कथंभूता ! । 'सकलकला' कलकलेन-कोलाहलेन सहिता सकलकला, तारस्वरेण गुणानुच्चरन्तीत्यर्थः । पुनः कथंभूता । कला-मधुरा । कथंमतं जिनराजविसरम् ।' अरुणकर ' अरुणौ-रक्तौ करौ-हस्तौ यस्य स तथा तम्, सामुद्रिके सत्पुरुषाणां करचरणयो रक्तत्वेन वर्णनात् । पुनः कथंभूतम् ! । ' अपापदं ' अपगता आपद्-विपत्तिः-दुर्दशेतियावत् यस्मात् स तम् । पुनः कथंभूतम् ? । ' उज्जासितजन्मनरं ' जन्म च जरा च जन्मजरे ' इतरेतरद्वन्द्वः', उज्जासिते-प्रतिहते जन्मजरे-जननविनसे येन स तथा तम् । ' नरायाः स्वरादौ जरस् वा वक्तव्यः' ( सा० सू० २०५) इति विकल्पपक्षे अमि रूपम् । पुनः कथंभूतम् १ । अपकलितापं ' अपगतौ कलितापौ-कलहसन्तापौ यस्मात् स तम् । यद्वा अपगतः कले:-कलिकालस्य [कले:-] कलहस्य वा तापो यस्मादित्यर्थः । पुनः कथंभूतम् ! । 'अदारुणकरं' करोतीति करः, दारुणस्य करो दारुणकरः, पश्चान्नसमासः, तं अदारुणकरम् । पुनः कथंभूतम् ! । 'अपापदं' अपाप-पुण्यं ददातीत्यपापदः तं अपापदं, पुण्यप्रदमित्यर्थः ॥
सौ० वृ०-स्तौतीति । अहं तं जिनराजविसरं-तीर्थकरसमूहं नमामि इत्यन्वयः। 'नमामि' इति क्रियापदम् । कः कर्ता ?।'अहम्'। 'नमामि' (वन्दे)। कं कर्मतापत्रम् ।' जिनराजविसरम्। किविधि जिनराजविसरम् ? । उज्जासिता-त्रासिता जन्म-जातिर्जरा-वयोहानिर्मरणादिरूपा येन स उज्जासित. जन्मजरः, तं ' उज्जासितजन्मजरम् । पुनः किंविशिष्टं जिनराजविसरम् । ? अरुणा रक्ता हस्ता यस्य सः अरुणकरः, तं 'अरुणकरम् ' रक्तकमलपाणिमित्यर्थः । पुनः किंविशिष्टं जिनराजविसरम् ? । 'तं' प्रसिद्धम् ।तं कम् ?। सुरावलिः-देवश्रेणिः समवसरणभूमौ-समवसरणभूमिकायाम् समन्ततः-चतुर्दिशं यं जिनराजविसरं स्तौति स्म इत्यन्वयः। 'स्तौति' इति क्रियापदम् । का की ? । 'सुरावलिः'। स्तौति' स्तुति करोति। स्म इति पदं अतीतार्थद्योतकम् । 'अस् भुवि' इत्यस्य धातोः उत्तमपुरुषार्थस्य क्रियाबहुत्वप्रयोगः। कंकर्मतापनम्। 'यं जिनराजविसरम्'। कस्याम् । 'समवसरणभूमौ' । कथम्? । 'समन्ततः' चतुर्दिशं यथा स्यात् तथा। किविशिष्टा सुरावलिः । सकलाः-संपूर्णा याः कला-ज्ञानविज्ञानादिकाः तासां कलापः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org