________________
जिनस्ततयः]
स्तुतिचतुर्विशतिका ज० वि०-स्तौतीति । अहं तं जिनराजविसरं-जिनपतिसमूह नमामि-प्रणमामि इति क्रियाकारकपयोगः । अत्र 'नमामि । इति क्रियापदम् । कः कर्ता ? 'अहम् । कर्मतापमम् ? 'जिनराजविसरम्।। तं इति तच्छन्दसम्बन्धाद् यच्छन्दघटनामाचष्टे-यं जिनराजविसरं समवसरणभूमौ-समवसृतिक्षितौ सुरावलिः-त्रिदशसन्ततिः समन्ततः-सर्वतः स्तौति स्मवन्दते स्म । अत्र 'स्म' इति अतीतार्थद्योतको निपातः । अत्रापि ' स्तौति ' इति क्रियापदम् । का की ? ' सुरावलिः'। कं कर्मतापन्नम् ? ' यम् ।। कस्याम् ? 'समवसरणभूमौ ।। कथम् ? ' समन्ततः ।। कथंभूता सुरावलिः ? ' सकलकलाकलापकलिता' सकलेन-समग्रेण कला. कलापेन-विज्ञाननिकरेण कलिता-युक्ता । पुनः कथं० १ 'अपमदा' अपगतदपो । पुनः कथं ? 'सकलकला' कलकलेन-कोलाहलेन सहिता, बाढस्वरेण गुणानुञ्चरन्तीत्यर्थः । पुनः कथं ? 'कला' मधुरा, मधुरस्वरधारित्वात् । कथंभूतं जिनराजविसरम् ? ' अरुणकरं आताम्रपाणिम् । पुनः कथं ? ' अपापदं ' अपंगतविपदम् । पुनः कथं०? ' उज्जासितजन्मजरं' उज्जासिते-प्रतिहते जन्मजरे-जननविनसे येन स तथा तम् । पुनः कथं० ? ' अपकलितापं । अपमतौ कलितापौ-कलहसन्तापौ यस्मात् स तथा तम् । ( पुनः कथं० १ ' अदारुणकरं') अदारुणं-अरौद्रं करोति यः स तथा तम् । पुनः कथं ? ' अपापदं । अपाप-पुण्यं ददाति या त तथा तम् ॥
अथ समासः-समवसरणस्य भूमिः समव तत्पुरुषः । तस्यां समव० । सुराणां आवलिः सुरावलिः ' तत्पुरुषः ।। सकलाश्च ताः कलाश्च सकल. 'कर्मधारयः । सकलकलानां कलापः सकल• · तत्पुरुषः । । सकलकलाकलापेन कलिता सकल. ' तत्पुरुषः'। अफ्गतो मदो यस्याः सा अपमदा 'बहुव्रीहिः ।। अरुणौ करौ यस्य सः अरुणकरः 'बहुव्रीहिः' । तं अरुण । अपगता आपदो यस्मात् सः अपापत् 'बहुव्रीहिः। तं अपापदम् । जिनानां जिनेषु वा राजानो जिनराजाः 'तत्पुरुषः। जिनराजानां विसरो जिनराज. ' तत्पुरुषः । सं जिनराज । जन्म च जरा च जन्मजरे ' इतरेतरद्वन्द्वः । उज्जासिते जन्मजरे येन स उज्जासि० 'बहुव्रीहिः' । तं उज्जासि० । सह कलकळेन वर्तत इति सकल. 'तत्पुरुषः। कलिश्च तापश्च कलितापौ ' इतरेतरद्वन्द्वः । अपगतो कलितापी यस्मात् सः अपक० 'बहुव्रीहिः । तं अपक० । न दारुणमदारुणं 'तत्पुरुषः ।। अदारुणं करोतीत्यदारुणकर 'तत्पुरुषः । अदारुण । न पापं अपापं 'तत्पुरुषः । अपापं ददातीत्यपापदः 'तत्पुरुष । तं अपापदम् ॥ इति काव्याः ॥ १ ॥
सि. वृ०-स्तीतीति । अहं तं जिनराजविसरं-जिनपतिनिकरं नमामि-प्रणमामीत्यर्थः । 'णम प्रहरवे शब्दे च' धातोः कर्तरि वर्तमाने परस्मैपदे उत्तमपुरुषैकवचनं मिप् । ' अप् कर्तरि । (सा० स० १९१ ) इत्यप् , ' मोरा' ( सा० स० १९६ ) इत्यात्वम, ' स्वरहीनं० ' (सा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org