________________
स्तुतिचतुविशतिका
[१८ श्रीअर
त्यनेकपाः, यता अनेकान् पान्तीत्यनेकपाः, अनेकपैःराजिताः अनेकपराजिताः, तां अनेकपराजिताम् । अरति-संसारसमुद्रस्य परतटं गच्छत्तीति अरः, तं अरम् । द्रुतं च तत् कलधौतं च दूतकलधौत, इतकल. धौतवत् कान्तःतकलधौतकान्तः, तं द्रुतकलधौतकान्तम् । आनन्दः सञ्जातः अस्मिन्निति आनन्दितः, तम् (आनन्दितम्), भूरिश्चासौ भक्तिश्च भूरिभक्तिः, भूरिभक्तिं भजन्ति ते भूरिभक्तिभाजः, नमन्तश्च ते अमराश्च नमदमरा:, सन्तश्च ते नमदमराश्च सनमदमराः, भूरिभक्तिभाजश्च ते सनमदमराश्च भूरिभक्तिभाकसनमदमराः, भूरिभक्तिभासनमदमराणां मानसं भूरिभक्तिभाक्सनमदमरमानसं, आनन्दितं भूरिभक्तिभाकूसनमदमरमानसं येन स आनन्दितभरिभक्तिमाकूसन्नमदमरमानसः,तं आनन्दितभूरिभक्तिभाकलनमदमरमानसम् । न एके अनेके, (अनेके) पराजिता अमरा येन सः अनेकपराजितामरः, तं अनेकपराजितामरम् । विंशतिवर्णमयी विषमच्छन्दसा 'वैश्वदेवीनाम्ना स्तुतिरियम् ॥ इति प्रथमवृत्ताः ॥१॥
दे०व्या०-व्यमुश्चच्चकेति। हेजनाः!तं अरं-अरनाथं यूयं आनमत-प्रणमतेत्यन्वयः। 'म प्रतीभावे, धातुः । 'आनमत ' इति क्रियापदम् । के कर्तारः। यूयम् । के कर्मतापन्नम् ? । अरम् । किंविशिष्ट अरम् । 'सनमदमरमानसंसारं' मदः पूर्वोक्तः मरो-मरणं मानः-स्मयः संसारो-भवग्रहणं एतेषां पूर्व 'दन्छः', ततः सन्न:-क्षीणो मदमरमानसंसारो यस्यति ' बहुव्रीहिः' । पुनः किंविशिष्टम् ? । 'दुतकलधौतकान्तं' द्रुते-गालितं यत् कलधौतं-सुवर्ण तद्वत् कान्तं-कमनीयम् । “कलधौतलौहोत्तमवह्निबीजा." इत्यभिधानचिन्तामणिः (का०४, श्लो० ११०)।पुनः किंविशिष्टम् ? । 'आनन्दितभूरिभक्तिभाक्सनमदमरमानसं, भूरि-अतिशयेन भक्ति-सेवां भजन्तीति भूरिभक्तिभाजः इति 'द्वितीयातत्पुरुषः', आराध्यत्वेन ज्ञानं भक्ति रिति वर्धमानचरणाः, ते च ते सम्-सम्यक् नमन्तश्च ते अमराश्चति 'कर्मधारयः, ततः आनन्दितं-प्रीणितं भरिभक्तिभाक्सन्नमदमराणां मानसं-हृदयं येनेति 'तृतीयाबहुव्रीहिः ।।अरं-शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् । पुनःर्किविशिष्टम् । 'अनेकपराजितामरं, अनेके पराजिता-भग्ना दिग्विजयादी अमरा-मगधादिदेवा येन स तम् । "जितो भग्नः पराजितः" इत्यभिधानचिन्तामाणिः (का०३, श्लो०४६९)। यत्तदोनित्याभिसम्बन्धादू यः अरनाथः चक्रवर्तिलक्ष्मी तृणमिव क्षणेन-क्षणमात्रेण व्यमुञ्चत्-अत्याक्षीत् । 'मुश्च मोचने ' धातुः । 'व्यमुश्चत् ' इति क्रियापदम् । कः कर्ता ?।अरनाथः । कां कर्मतापमाम् ? । चक्रवर्तिलक्ष्मीम् । “ चक्रवर्ती सार्वभौमः" इत्यभिधानचिन्तामणिः (फा० ३, श्लो० ३५५)। किविशिष्टां चक्रवतिलक्ष्मीम् ।।' अनेकपराजिता' अनेकपा-हस्तिनः तैः राजितां-भूषिता, चतुरशीतिलक्षमजानामधिपत्वात् । इति प्रथमवृत्तार्थः॥१॥
जिनवरेभ्यो वन्दना-- स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः
सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकरमपापदम् ॥२॥
-द्विपदी
-
अयमुझेखो भ्रान्तिमूलक इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org