________________
जिनस्तुतयः] स्तुतिचतुर्विशतिका
१९५ कर्ता । यः । कां कर्मतापन्नाम् ! । चक्रवर्तिलक्ष्मीम् । चक्रभूमण्डले-द्वादशराजमण्डले चक्रवर्तितुं प्रभुत्वलक्षणां वृत्तिघण्टां कर्तुं शीलमस्य णिनिः चक्र-राजसमूहे अवश्यं स्वामित्वेन वर्तते वा, आवश्यके णिनिः । चक्रवर्ती । " चक्रवर्ती बल्लगणे चक्रवाके " इति विश्वः । चक्रेण-चक्रायुधरत्नेन वा वर्तत इति चक्रवर्ती तस्य लक्ष्मीः-श्रीः ताम् । नृपाणां चक्रे-समूहे वर्तते चक्रेण चक्रायुधबलेन वा वर्तत इति चक्रवर्ती । लक्षयति पश्यति नीतिशालिनं इति लक्ष्मीः । लक्ष दर्शनाङ्कनयोः' । 'लक्षेर्मुट च' (उणा० स० ४४०) इतीकारप्रत्ययो मुडागमश्च । अत एव ङयन्तत्वाभावान्न सुलोपः । 'कृदिकारादक्तिनो वा डीप्' इत्यत्र सावर्ण्यग्रहणात् डीबतोऽपि मैवेयः (ज्ञेयः?) तेन लक्ष्मीशब्दस्य नदीवद् रूपाणि भवन्ति, 'कृदिकारात्' इति ङीषि लक्ष्मीत्यपि मवतीति, दुर्घटे रक्षित इत्युज्ज्वलदत्तः। लक्ष्मीः "लक्ष्मीहरेः स्त्रियाम्" इति शब्दप्रभेदः । चक्रवर्ती सार्वभौमः" इति हैमः ( का०३, श्लो० ३५५)। " चक्रवर्ती सार्वभौमो, नूपोऽन्यो मण्डले स्त्रियाम( श्वरः !)" इत्यमरः ( श्लो० १४७२)। किमिव ? । तृणमिव । कुत्र ? । इह । केन ? । क्षणेन । कथंभूतां चक्रवर्तिलक्ष्मीम् । अनेकपराजितां ' अनेकपा-द्विरदाः तैः राजितां-शोभिताम् । " दन्ती दन्तावलो हस्ती, द्विरदोऽनेकपो द्विपः " इत्यमरः (श्ले० १५३५)। करेण मुखेन च पानात् न एकेन पिबतीत्यनेकपः । 'सुपि.' (पा० अ० ३, पा० २, सू० ४) इति योगविभागात् कः ॥ ____सौ० वृ०-यः कौ-पृथिव्यां षड्जीवनिकायरक्षको भवति स भवोदधेः अरं-परतटं प्रामोत्येव । अनेन सम्बन्धेनायातस्याष्टादशमश्रीअरजिनस्य स्तुतेरर्थो लिख्यते-व्यमुञ्चच्चक्रेति।
हे जनाः ! यूयं तं अरनामानं जिनं आनमत इत्यन्वयः। 'आनमत' इति क्रियापदम् । के कर्तारः। 'यूयम्' । 'आनमत' प्रणमत । कं कर्मतापन्नम् ? । 'अरम्' । “अरो जिनेऽरं चक्राले, शीघ्रगे सत्वरे तटे" इत्यनेकार्थः। किंविशिष्टं अरम् ? । 'त' प्रसिद्धम् । तच्छन्दो यच्छन्दमपेक्षते । तं कम् ? । यो जिनः इह-संसारे चक्रवर्ति लक्ष्मी-चक्रधरऋद्धि सपदि-शीघ्र क्षणेन-वेगेन तृणमिव-वीरा इत्यन्वयः । 'व्यमुञ्चत्' इति क्रियापदम् । कः कर्ता ? । 'य' जिनः । 'व्यमुञ्चत्' विशेषेण अमुञ्चत्-अत्यजत । कां कर्मतापन्नाम् । 'चक्रवर्तिलक्ष्मीम्।। कस्मिन् ? । 'इह' संसारे । कथम् ।। 'क्षणेन' वेगेन । किमिव? । 'तृणमिव' । इह-यथा तृणं मुच्यते तद्वच्चक्रवर्तिलक्ष्मींव्यमुञ्चत् । किंविशिष्टं तं अरजिनम्? । सन्न:-क्षीणः मदो-दर्पः मरो-मरणं मान:-अहङ्कारः संसारो-भवः यस्मात् स सन्न दमरमानसंसारस्तं
परमानसंसारम्'। किविशिष्टां चक्रवर्तिलक्ष्मीम् । अनेकपा-गजास्तै राजिता-शोभिता अनेकपराजिता तां 'अनेकपराजिताम्'। पुनः किंविशिष्टं अरं जिनम् ? । द्रुतं-उत्तप्तं यत् कलधौत-सुवर्ण तद्वत् कान्तः-मनोज्ञः व्रतकलधौतकान्तस्तं 'द्रुतकलधौतकान्तम्' । पुनः किविशिष्टं अरं जिनम् । आनन्दितं-आनन्दं प्रापितं भूरि:-प्रचुरा भक्तिर्येषां ते भूरिभक्तिभाजः तादृशा ये सन्तः-शोभनाः नमन्तः-प्रणमन्तः ये अमरा-देवास्तेषां मानसं-चित्तं येन स आनन्दितभूरिभक्तिभाक्सनमदमरमानसस्तं 'आनन्दितभूरिभक्तिभाकसन्नमदमरमानसम्'। पुनः किंविशिष्ट अरं जिनम् ।। 'सारं'प्रधानम् । पुनः किंविशिष्टं अरं जिनम् ? । अनेके-बहवः पराजिताः-विजयीकृता अमराः-मागधवरदामादयो येन सः अनेकपराजितामरस्तं 'अनेकपराजितामरम्' । एतद् विशेषणं यात्रापेक्षया ज्ञेयम् । इति पदार्थः ॥
अथ समासः-चक्रं अनुवर्तत इति चक्रवर्ती, वा चक्रेण वर्तत इति चक्रवर्ती । चक्रवर्तिनो लक्ष्मीः चक्रवर्तिलक्ष्मीः, तां चक्रवर्तिलक्ष्मीम् । मदश्च मरश्च मानश्च संसारश्च मदमरमानसंसाराः, समा:-क्षीणा गता वा मदमरमानसंसारा यस्मात् स सन्नमदमरमानसंसारः, तं सलमदमरमानसंसारम् । न एकेन पिबन्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org