________________
१९४
स्तुतिचतुर्विशतिका
[१८ श्रीअरद्वत० 'तत्पुरुषः । तं द्रुत । भूरिश्चासौ भक्तिश्च भूरिभक्तिः 'कर्मधारयः' । भूरिभक्ति भजन्तीति भूरिभ. 'तत्पुरुषः। सनमन्तश्च ते अमराश्च सन्नम० 'कर्मधारयः' । भूरिभक्तिभाजश्व ते सनमदमराश्र भूरिभ० 'कर्मधारयः' । भूरिभक्तिभाक्सनमदमराणां मानसं भूरिभ० 'तत्पुरुषः । आनन्दितं भूरिभक्तिभाक्सनमदमरमानसं येन स आनन्दित० 'बहुव्रीहिः । तं आनन्दित । अनेके च ते पराजिताश्च अनेक० 'कर्मधारयः । अनेकपराजिता अमरा येन सः अनेक० 'बहुव्रीहिः' । तं अनेक० । चक्रवर्तिलक्ष्मीविशेषणपक्षे तु-अनेके च ते परे च अनेकपरे ‘कर्मधारयः' । न जिता अजिता ' तत्पुरुषः' ।अनेकपरैः अजिता अनेक ० 'तत्पुरुषः । तां अनेक० ॥ इति काव्यार्थः ॥ १॥
सि० वृ०-~-व्यमुश्चच्चक्रेति ।मो भव्याः ! यूयं तं अरं-अरनाथं आनमत-प्रणमतेत्यर्थः । आर्वक'णम प्रतीभावे ' धातोः ‘आशीःप्रेरणयोः । (सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । अत्र 'आनमत' इति क्रियापदम् । के कर्तारः? । यूयम् । कं कर्मतापन्नम् ? । 'अरम्' गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इत्यरः तम् ।
" सर्वोत्तमे महासत्त्व-कुले य उपजायते ।
तस्यामिवृद्धये वृद्ध-रसावर उदाहृतः ॥" इति हैम्यां नाममाकावृत्तौ [इति ] वचनाद् अरः । किंविशिष्टं अरम् ! । ' सन्नमदमरमानसंसारं । मदःजात्यादिकः मरः-परणं मान:-अभिमानः संसारः-जन्मजरालक्षणः, मदश्च मरश्च मानश्च संसारश्च ' इत. रेतरद्वन्द्वः', सन्ना:-क्षीणा मदमरमानसंसारा यस्य स तथा तम् । पुनः कथंभूतम् ! । ' द्रुतकलधौतकान्तं । द्रुतं-उत्तप्तं यत् कलधौतं-काश्चनं तद्वत् कान्तं-कमनीयम् । “ कलधौतं रूप्यहेम्नोः" इत्यमरः (श्लो० २४८७) । पुनः कथंभूतम् ! । 'आनन्दितभरिभक्तिभाक्सन्नमदपरमानसं' आनन्दितं-आनन्द प्रापितं
भरिमक्तिमानां' भूरिमति-अनुरागं भजन्ति ते भूरिभक्तिभाजः तेषाम्, 'मनां विण' (सा० सू०१२३२) इति विण, सन्नमतां-प्रणमतां अमराणां-देवानां मानसं-मनो येन स तथा तम् । सन्नमन्तश्च ते अमराश्च सन्नमदमराः, भरिमक्तिमानश्च ते सन्नमदमराश्च मरिभक्तिभाक्सन्नमदमराः इति — कर्मधारयः', ततः आनन्दितं मरिमक्तिमाक्सन्नमदमराणां मानसं येन इति । बहुव्रीहिः । पुनः कथंभूतम् ? । सारं श्रेष्ठम् । पुनः कथंभूतम् ! । ' अनेकपराजितामरं ' अनेके-अपरिमिता: पराजिताः-निर्जिताः दिग्विजये अमराःमागधादिदेवाः येन स तथा तम् । तमिति तच्छब्दस्य यच्छब्दसापेक्षत्वात् तं कम् ? । यः अरजिनः इह-अत्र जगति चक्रवर्तिलक्ष्मी-सार्वभौमश्रियं तृणमिव-यवसमिव क्षणेन--सपदि व्यमुञ्चत्-त्यक्तवानित्यर्थः । • मुच्ल मोक्षणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'तुदादेरः। (सा० स० १००७) इत्यप्रत्ययः । ' मुचादेर्मुम् ' ( सा० सू० १०११ ) इति मुम् । 'नश्चापदान्ते झसे' (सा० सू०९५) इति मस्यानुस्वारः । ' दिवादावट ' ( सा० सू० ७०७ ) । अत्र 'व्यमुञ्चत् ' इति क्रियापदम् । कः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org