SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ १८ श्रीअरजिनस्तुतयः अथ श्रीअरनाथाय प्रणिपातः व्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्सन्नमदमरमानसं सारमनेकपराजितामरम् ॥ १॥ -द्विपदी ज० वि०-व्यमुश्चञ्चक्रेति । भो भव्याः! यूयं तं अरम्-अरनामानं जिनम् आनमत-प्रणमत इति क्रियाकारकसण्टडूः । अत्र ' आनमत ' इति क्रियापदम् । के कर्तारः ? ' यूयम् ' । कं कर्मतापनम् ? 'अरम् । कथंभूतम् ? 'सन्नमदमरमानसंसारम् ' मदः-जात्यादिकः मरः-मरणं मान:-अभिमानः संसारः-भवः, सना:-क्षीणा मदमरमानसंसारा यस्य स तथा तम् । पुनः कयं० १ 'द्रुतकलधौतकान्तम् ' द्रुतं-उत्तप्तं कलधौतं-सुवर्ण तद्वत् कान्तं-कमनीयम् । पुनः कथं० १ 'आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम्' आनन्दितम्-आह्लादितं भूरिभक्तिभाजाप्रभूतभावजुषां सनमता-प्रणमताम् अमराणां-देवानां मानसं-मनो येन स तथा तम् । पुनः कयं० ? ' सारम् । श्रेष्ठम् । पुनः कथं० १ ' अनेकपराजितामरम् । अनेकेअपरिमिताः पराजिता-निर्जिता अमरा-देवा येन स तथा तम् । इदं च विशेपणं दिग्विजयसमयापेक्षया ज्ञेयम् । तमिति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यः अर. जिनः इह-अत्र जगति चक्रवर्तिलक्ष्मी-चक्रधरश्रियं तृणमिव-तृणं वीरणादि तदिव क्षणेनसपदि व्यमुश्चत्-त्यक्तवान् । अत्रापि 'व्यमुञ्चत् । इति क्रियापदम् । कः कतो ? 'य:। का कर्मतापन्नाम् ? 'चक्रवर्तिलक्ष्मीम् । किमिव ? ' तृणमिव'। कुत्र ? ' इइ 'केन ? 'क्षणेन । कथंभूतां चक्रवतिलक्ष्मीम्? 'अनेकपराजिताम्' अनेकपा:-करिणः तैः राजितां-शोभिताम् । अनेकपराजितामरम् इति पदं यत् जिनविशेषणत्वेन व्याख्यातं तत् चक्रवर्तिलक्ष्म्या विशेषणत्वेन व्याख्येयम् । तथाहि-अनेकैः परैः-शत्रुभिः अजिता-अपरिभूताम्, अरं-शीघ्रम् ॥ अथ समासः-चक्रेण वर्तते इति चक्रवर्ती 'तत्पुरुषः । चक्रवर्तिनो लक्ष्मीः चक्र० 'तत्पुरुषः ।। तां चक्र० । मदश्च मरश्च मानव संसारश्च मदमर० ' इतरेतरद्वन्द्वः । सभा मदमरमानसंसारा येन स सन्नमद० 'बहुव्रीहिः ।। तं सन्नमद० । अनेकपैः राजिता अनेक. 'तत्पुरुषः ।ता अनेक० । द्रुतं च तत् कलधौतं च द्रुत० 'कर्मधारयः' । द्रुतकलधौतवत् कान्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy