________________
१९३
स्तुतिचतुर्विंशतिका
[ १७ श्री कुन्धु
,
सौ० वृ० - प्रचलदचिरेति । हे पुरुषदत्ते !- पुरुषवृत्तानाम्नि देवि! ते तव प्रसादाः - प्रसन्नगुणाः सदसि - सभायां मे मम फलकराः - फलदायकाः सपदि - शीघ्रं भवन्तु इत्यन्वयः । ' भवन्तु' इति क्रियापदम् । के कर्तारः ? । ' प्रसादाः ' । 6 भवन्तु ' सन्तु । कस्याः ? | 'ते' भवत्याः । किंविशिष्टाः प्रसादाः १ । फलकराः ' फलदायिनः । कस्य? | 'मे' मम । कस्याम् ? | 'सदसि सभायाम् । कथम् ? 1 सपदि ' शीघ्रम् । शेषाणि सम्बोधनपदानि पुरुषदत्ताया ज्ञेयानि । तानि व्याचक्ष्महे वयम् । प्रचलन्तीइतस्ततः झात्कारायमाणा या अचिररोचिः-विद्युत् तद्वत् चारु-मनोज्ञं गात्रं शरीरं यस्याः सा प्रचलदचिरचिञ्चारुगात्रा, तस्याः सं० हे 'प्रचलदचिररोचिश्चारुगात्रे !' । समुद्यत् - तेजोजाग्रत् सन् -शोभनः असिः-खड्गः फलकं-खेटकं ताभ्यां रामा-अभिरामा समुद्यत्सदासिफलकरामा, तस्याः सं० हे 'समुद्यत्सदसिफलकरामे !' । पुनः अभीमं - अरौद्रं सौम्यं हांसं यस्याः सा अभीमहासा, तस्याः सं० हे 'अभीमहासे:' । पुनः अरयः - शत्रवः तेषां भीः- भयं तेषु इतिरिव इतिः अरिभीतिः, तस्याः सं० हे 'अरिमीते ।। पुनः अभी: - निर्भया महती सेरिमी-महिषी तां प्रति इता प्राप्ता अभीमहासोरभीता, तस्याः सं० हे 'अभी महासेरिभीते!' । 'निर्भयमहामहिष्यारूढे ! इत्यर्थः । इति पदार्थः ॥
अथ समासः -- न चिरं अचिरं, अचिरं रोचिर्यस्याः सा अचिररोचिः, प्रचलन्ती चासौ अचिररोचिश्च प्रचलदचिररोचिः, प्रचलदचिररोचिर्वत् चारु गात्रं यस्याः सा प्रचलदचिररोचिश्चारुगात्रा, तस्याः सं० हे प्रचलदचिररोचिश्चारुगात्रे ! | असिश्च फलकं च असिफलके, सती च ते असिफलके च सदसिफलके, समुद्यती च ते सदसिफलके च समुद्यत्सदसिफलके, समुद्यत्सदसिफलकाभ्यां रामा समुद्यत्सद सिफलकरामा, तस्याः सं० हे समुद्यत्सद सिफलकरामे !। न भीमं अभीमं, अभीमं हासं यस्याः सा अभीमहासा, तस्याः सं० हे अभीमहासे ! । अरीणां भीः अस्मिीः, अरिभियां इतिवि ईतिस्तस्याः सं० हे अरिभीते ! | फलानि कुर्वन्ति ते फलकराः । न (विद्यते) भीः (यस्याः सा ) अभीः, महती चासौ सेरिमी च महासेरिभी, अभीश्वासी महासेरिभी च अभी महासेरिभी, अभी महासेरिभीं इता अभीमहासेरिभीता, तस्याः सं० हे अभी महासेरिभीते ! । इति चतुर्थवृत्तार्थः ॥ ४ ॥
श्रीमत्कुन्थुजिनेन्द्रस्य, स्तुतेरर्थो लिवीकृतः ।
सौभाग्य सागराख्येण, सूरिणा ज्ञानसेविना ॥ १ ॥ ॥ इति कुन्थुजिनस्तुतिः ॥ ४१७ ॥ ६८ ॥
दे० व्या०-- प्रचलदाचिराते । हे पुरुषदत्ते ! ते तव प्रसादा: - अनुग्रहाः सदसि फलकराः - कार्यकारिणो मे मम भवन्तु इति सम्बन्धः । ' भू सत्तायाम् ' धातुः । ' भवन्तु ' इति क्रियापदम् । के कर्तारः ? । प्रसादाः । किंविशिष्टाः प्रसादा: ? । फलकराः । कस्याम् ? | सदसि सभायाम् । " समाजः परिषत् सदः " इत्यभिधानचिन्तामणि: (का० ३, श्लो० १४५ ) । कथम् ? । सपदि शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् । 'प्रच दचिरचिश्वारुगात्रे ! ' इति । प्रकर्षेण चलन्ती - इतस्ततः स्फुरन्ती या अचिररोचिः - विद्युत् तद्वत् ( चारु )कान्तं गात्रं - शरीरं यस्याः सा तस्याः संबोधनम् । " चला शम्पाऽचिरप्रभा ” इत्यभिधानचिन्तामणिः (का०४, लो०१७० ) । 'समुद्यत्सदसिफल करामे !' इति । (विलसद्भयां असिफलकाभ्यां रामा - रमणीया या तस्याः संबोधनम् ) । ' अभीमहासे ! ' इति । अभीमः - अरौद्रः हासो - हसनं यस्याः सा तस्याः संबोधनम् । हासस्तु हसनं हसः " इत्यभिधानचिन्तामणिः (का० २, श्लो० २१० ) । ' अरिभीते ! ' इति । अरयोविपक्षाः तेभ्यो भीः- भयं तस्या ईते ! - ईतिभूते । इति प्राञ्चः । 'अभी महासेरिभीते ! ' इति । अभी: - निर्भया या महासेरंभी - प्रौढमहिषी तां इते ! अधादारूढं ! | "लुलायः सेरिभो महः " इत्यभिधानचिन्तामणि: (का० श्लो० ३४८ ) । एतानि सर्वाण्यपि देव्याः संबोधनपदानि ॥ इति तुरीयवृत्तार्थः ॥ ४ ॥
४,
१ हासशब्दस्य नपुंसकलिङ्गं चिन्त्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org