________________
जिनस्तुल्यः ]
स्तुतिचतुर्विंशतिका
"
फलकं च असिफलके ' इतरेतरद्वन्द्रः ' । सती च ते असिफलके च सदसि० ' कर्मधारयः । समुद्यती च ते सदसिफलके च समुद्यत्स० ' कर्मधारयः । समुद्यत्सद सिफलकाभ्यां रामा समुद्यत्स० तत्पुरुषः ' । तत्सम्बो० हे समुद्यत्स० । न भीमः अभीमः ' तत्पुरुषः ' । अभीमो हासो यस्याः सा अभी० ' बहुव्रीहि: ' । तत्सम्बो० हे अभी० । अरिभ्यो भीः अरिभीः तत्पुरुषः ' । अरिभिय इतिः अरिभीतिः ' तत्पुरुषः ' । तत्सम्बो० हे अरिभीते 1 । फलं कुर्वन्तीति फलकराः 'तत्पुरुषः' । न विद्यते भीर्यस्याः सा अभी: 'बहुव्रीहि:' । महती चासौ सेरिभी च महा० ' कर्मधारयः ' । अभीश्वासौ महा सेरिभी च अभी ० ' कर्मधारयः ' । अभी महासेरिभी इता अभी ० ' तत्पुरुषः ' । तत्सम्बो० हे अभीम० ॥ इति काव्यार्थः ॥ ४ ॥
4
॥ इति श्रीशोमनस्तुतिवृत्तौ श्री कुन्थुनाथस्य स्तुतेर्व्याख्या ॥ १७ ॥
1
सि० हृ०—–प्रचलदचिरेति । पुरुषेषु दत्तं यस्याः सा पुरुषदत्ता तस्याः संबोधनं हे पुरुषदत्ते ! ते - तव प्रसादा - अनुग्रहाः मे - मम सदसि सभायां सपदि - तत्क्षणं फलकरा:- कार्यसिद्धिकारिणो भवतु — सम्पद्यन्तामित्यर्थः।' भू सत्तायाम् ' धातो: 'आशीः प्रेरणयोः ' (सा०सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनम् । अत्र ' भवन्तु ' इति क्रियापदम् | के कर्तारः । प्रसादा: । " प्रसादोऽनुग्रहे काव्य-गुणस्वास्थ्यप्रसत्तिषु ” इति विश्वः । कस्याः । ते तव संबन्धिनः । कथंभूताः प्रसादाः ! फलकराः । कथम् ? । सपदि । कस्य ? | मे | कस्मिन् ! | सदसि । “समाजः परिषत् सदः" इति हैम: (का०३, श्लो० १४९ ) । अवशिष्टानि पुरुषदत्तायाः संबोधनानि तद्वयाख्यानं त्वेवम्-- हे ' प्रचलदचिररोविश्वारुगात्रे !' प्रचलन्तीप्रकर्षेण चलन्ती - इतस्ततः स्फुरन्ती या ' अचिररोचि: ' अचिरा रोचिर्यस्याः सा अचिररोचिः - विद्युत् तद्वत् चारु - मनोज्ञं गात्रं - देहो यस्याः सा तस्याः संबोधनं हे प्रचल० । हे ' समुद्यत्सद सिफलकरामे ! ' समुद्यती - प्रोल्लसन्ती सती - शोमने असिफलके - खगखेटके ताम्यां रामा - रमणीया तस्याः संबोधनम् । असिश्च फलकं च असिफलके ' इतरेतरद्वन्द्वः ', सती च ते असिफलके च सद० ' कर्मधारयः १, समुद्यती च ते सदसिफलके च समुद्यत्सदसिफलके ' कर्मधारयः ', ततः समुद्यत्सदसिफलकाम्यां रामा इति ' तत्पुरुषः ' । हे ' अमीमहासे ! ' न भीमः अभीमः ' तत्पुरुषः । अभीमः - अरौद्रो हासो - हसनं यस्याः सा तथा तस्याः संबोधनं हे अमीम ० । हे ' अस्मिीते !' अरिम्यो भी:- मयं तस्या इतिरिव इतिः अरिमीतिः तस्याः संबोधनं हे अरि० । । " इति : प्रवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च " इति विश्वः । ' उपमितं व्याघ्रा ० ' (पा० अ० २, पा० १ सू० १६ ) इति समासः । हे 'अभी महासेरिभीते !' अमी:- मीवर्जिता या महासेरिभी - महामहिषी तां इते ! गते ! महिष्यारूढे ! इत्यर्थः । न विद्यते मीर्यस्याः सा अभीः इति बहुव्रीहिः ', महती चासौ सेरमी च महासेरमी ' कर्मधारयः । " लुलायो महिषो वाह - द्विपस्कास र सेरिमाः " इत्यमरः ( लो० ९९६ ) ॥ ४ ॥
"
"
॥ इति श्रीमहामहोपाध्याय ० श्री कुन्थुनाथस्तुतिवृत्तिः ॥ १७ ॥
Jain Education International
१९१
For Private & Personal Use Only
www.jainelibrary.org