________________
जिनस्तुतयः ।
स्तुतिचतुर्विंशतिका
मरणाभावादिति मावः । अत्र द्विरदेन सह सिद्धान्तस्य श्लेषः । सोऽपि विगतमुद्रो - गतमर्यादः स्वच्छन्द इति प्रलम्भश्च भवति । तस्यापि कवेर्वर्णयितुं योग्याः पदप्रचार क्रमाश्वकासते दन्ताश्च मवन्ति । दानमार्गो-मदप्रवाहश्च समुदेति । सोऽपि वृक्षं धुनोति अमङ्गश्च भवति । कृतान्तं - कृतविनाशं विपक्षादिकं तुदतीति ॥ ३ ॥
1
सौ० वृ० - स्मरतेति । हे लोकाः ! यूयं कृतान्तं-सिद्धान्तं स्मरत इत्यन्वयः । 'स्मरत' इति क्रियापदम् | के कर्तारः । । ' यूयम् ' ।' स्मरत' ध्यायत । कं कर्मतापन्नम् ! | 'कृतान्तं ' सिद्धान्तम् । “राद्धसिद्धकु तेभ्योऽन्तः " इति है मः (का० १, श्लो० १५६ )। किंविशिष्टं कृतान्तम् ? । 'विगतमुद्रं 'अपान्तपर्यन्तम् । पुनः किंविशिष्टं कृतान्तम् ? । 'जैनचन्द्रं ' तीर्थकरसत्कम् । पुनः किंविशिष्टं कृतान्तम् । चकासन्तोदीप्यमानाः कवीनां पण्डितानां पदानि - पदरचना गमाः- सदृशपाठाः भङ्गा-एकद्वित्र्यादयः यत्र स चकासत्कविपद्गमभङ्गः तं ' चकासत्कविपद्गमभङ्गम् ' । पुनः किंविशिष्टं कृतान्तम् ? । हेतकः [ दृष्टान्ताः ] एव प्रतिपक्षदुर्गभेदनत्वाद् दन्ता इव दन्ता यस्मिन् स हेतुदन्तः तं हेतुवन्तम् । पुनः किंविशिष्टं कृतान्तम् ? | समुद्यत् सम्यक्प्रकारेण उद्यव्-विलसद् दानं ज्ञानदर्शनचारित्रादीनां वितरणं तस्य मार्ग:पन्थाः यस्मिन् स समुद्यद्दानमार्गः तं ' समुद्यद्दानमार्गम् पुनः किंविशिष्टं कृतान्तम् । धुतो-निराकृतः अर्ध - पापं तदेव एका अद्वितीया विपद्-आपत् सैव अगो-वृक्षो येन स धुताचैकविपद्गः तं 'धुताचैकविपद्गम्' । पुनः किंविशिष्टं कृतान्तम् । 'अभङ्गं ' अजेयम् । कृतान्तं किं कुर्वन्तम् ? | ' तुदन्तं ' पीडयन्तम् । के कर्मतापनम् । 'कृतान्तम्' यमं मरणं [ कृतान्तं-सिद्धान्तं वा ] । कमिव ? | 'द्विरदमिव' हस्तिनमिव । हस्तिकृतान्तयोः सादृश्यम् । द्विरदोऽपि विगतमुद्रो-मुक्तमर्यादो भवति, दीप्यमानकविवर्णनीयपगमनभट्टो भवति, दन्तैः कृत्वा दुर्गभेद्यो भवति, समुद्यद्दानमदमार्गो भवति, निराकृतदुष्टवृक्षोऽपि भवति, (अभङ्गञ्च भवति) अरिवर्गे व्यथयन् भवति इति द्विरदेन सह कृतान्तस्य-सिद्धान्तस्य छायार्थः । इति पदार्थः ॥
?
?
च
अथ समासः - विगता मुद्रा यस्य स विगतमुद्रः, तं विगतमुद्रम् । जिनेषु चन्द्राः जिंनचन्द्राः, जिनचन्द्राणामयं जैनचन्द्रः तं जैनचन्द्रम् । पदानि च गमाश्च भङ्गाश्च पद्गममङ्गाः, कासन्तः कविभिः कृत्वा पदगमभङ्गा यस्मिन् स यस्य वा चकासत्कविपद्गमभङ्गः तं चकासकविपद्गमभङ्गम् । हेतव एव दन्ता यस्य स हेतुदन्तः, तं हेतुदन्तम् । द्वौ रदौ यस्य स द्विरदः तं विरदम् । दानस्य मार्गः दानमार्गः, समुद्यद् दानमार्गो यस्य स समुद्यद्दानमार्गः, तं समुद्यद्दानमार्गम्। एका चासौ विपच्च एकविपत्, अघेनैव एकविपत् अघैकविपत् सैव- अघैकविपदेव अगः अघैकविपदगः, गच्छतीति गः, न गः अगः, धुतः अधेकविपदगो येन स धुताचैकविपद्गः तं धुताचैकविपदगम् । नास्ति भङ्गः पराजयो यस्य सः अभङ्गः, अभङ्गम् । तुदतीति तुदन् तं तुदन्तम् । हे इत्यामन्त्रणे भिन्नपदम् । इति तृतीयवृत्तार्थः ॥ ३ ॥
तं
८८
दे० व्या० - स्मरतेति । हे भव्यजनाः ! यूयं द्विरदमिव - हस्तिनमिव जैनचन्द्रं कृतान्तं स्मरत - स्मृतिविषयीकुरुत इत्यन्वयः । 'स्मृ चिन्तायाम् ' धातुः । ' स्मरत' इति क्रियापदम् । के कर्तारः १ । यूयम् । कं कर्मतापन्नम् ? । कृतान्तं - सिद्धान्तम् । 'राधसिद्ध कृतेभ्योऽन्त, आप्तोक्तिः समयागमौ " इत्यभिधानचिन्तामणिः (का०२, श्लो० १५६ ) । कमिव ? | द्विरदमिव- हस्तिनमिव । किंविशिष्टं कृतान्तम् ? । 'जैनचन्द्रम्' जिनचन्द्रस्य इदं (मं) जैनचन्द्रम् । पुनः किंविशिष्टम् ? । 'विगतमुत्रम्' विगता मुद्रा - इयत्ता यस्य स तमू, अपरिमितमित्यर्थः । पुनः किंविशिष्टम् ? । ' चकासत्कविपद्गम भङ्गम् ' कविपदानि - उत्प्रेक्षायलङ्कारव्यङ्ग्यसूचकानि पदानि [ कवि पदानि ], गमाः- सदृशपाठाः, भङ्गाः - विकल्पसमूहाः, एतेषां पूर्व 'इन्द्रः, ततः खका सन्तः -शोभमानाः कविपद्गमभङ्गा यस्मिन् स तम् । पुनः किंविशिष्टम् ? । ' हेतुदन्तम् ' हेतवः - साध्यगमकाः प्रतिपक्षदुर्गभेदकत्वात् त एव दन्ता विषाणा यस्य स तम् । "अङ्गुलिः कर्णका दन्तौ विषाणौ स्कन्धआसनम्" इत्यभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org