________________
१८८ स्तुतिचतुर्विशतिका
[ १७ श्रीकुन्धुमार्गो-मदभवाश्च समुदेति तथा सोऽपि वृक्षं धुनोति अभङ्गश्च भवति तथा सोऽपि कृतान्तंकृतविनाशं विपक्षादिकं तुदतीति ॥
अथ समासः-विगता मुद्रा यस्मात् स विगत 'बहुव्रीहिः । तं विग० । जिनानां जिनेषु वा चन्द्रो जिनचन्द्रः'तत्पुरुषः'। जिनचन्द्रस्यायं जैन ।तं जैनचन्द्रम् । कवीना योग्यानि पदानि कवि० ' तत्पुरुषः। कविपदानि च गमाश्च भङ्गाश्च कविपद. 'इतरेतरद्वन्दः'। घकासन्तः कविपदगमभङ्गा यस्मिन् स चकासत्क० 'बहुव्रीहिः । चकासत्क० । द्विरदपक्षे तु गमस्य भङ्गा गमभङ्गाः 'तत्पुरुषः' । पदानां गमभङ्गाः पदगम० 'तत्पुरुषः। शेष माग्वत् । हेतव एव दन्ता यस्य स हेतु० 'बहुव्रीहिः'तं हेतु० । द्वौ रदौ यस्य स द्विरदः 'बहुव्रीहिः। तं द्विरदम् । दानस्य मार्गो दानमार्गः तत्पुरुषः । । समुघद् दानमार्गो यस्मिन् स समुप० 'बहुव्रीहिः । तं समुघ । एका चासो विपत् च एकविपत् 'कर्मधारयः' । अघमेवैकविपद् अघै० 'कर्मधारयः'। अग इव अगः । अर्धेकविपञ्चासावगश्च अधैकवि० 'कर्मधारयः। धुतोऽधैकविपदगो येन स धुताधैः । तं धुता० । न विद्यते भङ्गो यस्यासौ अभङ्ग: 'बहुव्रीहिः' । तं अभङ्गम् । कृतः अन्तो येन स कृतान्तः 'बहुव्रीहिः। तं कृतान्तम् ॥ इति काव्यार्थः॥३॥
सि. १०-स्मरतेति । हे लोकाः! यूयं जिनचन्द्रस्येमं जैनचन्द्रं कृतान्तं-सिद्धान्तं स्मरत-घ्यायतेत्यर्थः । ‘स्मृ चिन्तायाम् ' धातोः 'आशी:प्रेरणयोः' (सा० स०७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनंत । 'अप्०' (सा०म०१९१), 'गुणः ' (सा० सू०६९२), 'स्वरहीन' (सा० स०३१)। तथाच 'स्मरत' इति सिद्धम् । अत्र ' स्मरत' इति क्रियापदम् । के कर्तारः ! । यूयम् । कं कर्मतापनम् ! । कृतान्तम् । कमिव ! । द्विरदमिव । द्वौ रदौ-दन्तौ यस्य स द्विरदस्तमिव, हस्तितुल्यमित्यर्थः । कयंभूतं कृतान्तम् ! 'विगतमुद्रं' विगता मुद्रा-इयत्ता मानमितियावद् यस्मात् स तम । पुनः कथंभूतम् ? । 'चकासत्कविपदगममङ्गम्' कविपदानि-उत्प्रेक्षा(ध)ल कारव्यङ्गयसूचकानि गमाः-सदृशपाठाः मङ्गाः-विकल्पसमूहाः, कविपदानि च गमाश्च मनाश्च कविपदगममगाः । इतरेतरद्वन्द्वः', चकासन्तः-शोभमानाः कविपदगममका यस्मिन् स तथा तम् । पुनः कथंभूतम् ! । ' हेतुदन्तं ' हेतव एव प्रतिपक्षमेदकत्वाद् दन्तौ-विषाणो यस्य स तम् । अङ्गुलिः कर्णिका दन्तौ, विषाणो स्कन्ध आसनं इति हैमः (का०४, श्लो०२९०) । पुनः कथंभूतम् ? । 'समुद्यद्दानमार्ग' समुद्यत्-समुल्लसन् दानमार्गों-ज्ञानादीनां वितरणक्रमो यत्र स तम् । पनः कथंमतम् । धुताकविपदगं' अर्घ-पापं तदेवैका-अद्वितीया विपद-आपत् सैव दुःखफलदायकत्वाद अगो-वृक्षः, धुतो-निरस्तः अत्रैकविपदगो येन स तथा तम् । एका चासौ विपञ्च एकविपत् इति 'कर्मधारयः। पुनः कथंभूतम् ! । ' अमङ्गं' न विद्यते मङ्गो यस्य स तम्, अनेयमित्यर्थः । किं कुर्वन्तं जैनचन्द्रं कृतासम् ? । तुदन्तं-गीडयन्तम् । कम् ! ! कृतान्तं-मरणं, एतत्प्रतिपादितानुष्ठानकृतो मवग्रहणाभावेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org