________________
जिनस्तुतयः] स्तुतिचतुर्विंशतिका
१८५ ज० वि०-सकलेति । तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकरेभ्यः नमः अस्तु इति क्रियाकारकान्वयः। अत्र 'अस्तु' इति क्रियापदम् । किं कर्तृ ? ' नमः । केभ्यः ? 'सकलजिनपतिभ्यः' । कथंभूतेभ्यः ? तेभ्यः । प्रसिद्धेभ्यः । अयं तच्छन्दः प्रसिद्धार्थवाचकत्वाद् यच्छब्दं नापेक्षते। यदुक्तम्-"प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः कथंभूतेभ्यः ? 'पावनेभ्यः पवित्रताजनकेभ्यः । पुनः कथं० ? ' सन्नयनस्वरदेभ्यः' नयने-लोचने रवः-शब्दः रदा-दन्ताः, सन्तः-शोभना नयनरवरदा येषां ते तथा तेभ्यः । पुनः कथं ? ' सारवादस्तुतेभ्यः । सार:--अर्थप्रधानः वादः-उक्तिर्येषां तैः स्तुतेभ्यःवन्दितेभ्यः, यदिवा सारेण वादेन कृत्वा स्तुतेभ्यः । पुनः कथं० १ समधिगतनुतिभ्यः' समधिगता-माप्ता नुतिः-प्रणामो यस्ते तथा तेभ्यः । कस्मात् ? ' देववृन्दात् । सुरसमूहात् । कथंभूताद् देवन्दात् ? ' सारवात् । आरवेण-शब्देन सह वर्तमानात, स्तुतिपरादित्यर्थः । पुनः कथंक सफलजिनपतिभ्यः ? 'गरीयोनयनरवरदेभ्यः ' गरीयोनयाः-गरिष्ठनीतयो ये नरा-मानवा: तेषां वरदेभ्यः-प्रार्थितार्थप्रदेभ्यः॥
अथ समासः-जिनानां जिनेषु वा पतयो जिनप० ' तत्पुरुषः । सकलाश्च ते जिनपतयश्च सकल. 'कर्मधारयः । तेभ्यः सकल० । नयने च रवश्व रदाश्च नयन०' इतरेतरद्वन्दुः । सैन्तो नयनरवरदा येषां ते सन्नयन० 'बहुव्रीहिः' । तेभ्यः सन्नयन । सारो वादो येषां ते सारवादाः 'बहुव्रीहिः' । सारवादैः स्तुताः सार० 'तत्पुरुषः । तेभ्यः सार०। यदिवा सारथासौ वादश्च सारवादः 'कर्मधारयः । सारवादेन स्तुताःसार० 'तत्पुरुषः। तेभ्यः सार० समधिगता नुतिर्यैस्ते सम० 'बहुव्रीहिः' । तेभ्यः समः । देवानां वृन्दं देववृन्दं ' तत्पुरुषः' । तस्माद् देवन्दात् । गरीयांसो नया येषां ते गरीयोनयाः ‘बहुव्रीहिः ।। गरीयोनयाश्च ते नराश्च गरीयो०
कर्मधारयः ।। वरं ददतीति वरदाः ' तत्पुरुषः ।। गरीयोनयनराणां वरदाः गरीयो० 'तत्पुरुषः । तेभ्यो गरीयो० । सह आरवेण वर्तते यत् तत् सारवम् ' तत्पुरुषः (१)' । तस्मात् सारवात् ॥ इति काव्याथः॥ २॥
सि० वृ०-सकलेति । तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकरेम्यः नमोऽस्तु । ' अस्तु' इति क्रियापदमध्याहियते । अस्तु इति क्रियापम् । किं कर्तृ ? । नमः केभ्यः ? । 'सकलजिनपतिभ्यः' सकालश्च ते जिनपतयश्च सकलजिनपतयस्तेभ्यः । कथंभूतेभ्यः ? । तेभ्यः-प्रसिद्धेभ्यः । तच्छब्दोऽत्र प्रसिद्धार्थवाचकः, तेन यच्छब्दस्यानापेक्षेति मन्तव्यम् , यदाह-" प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः कथंभूतेभ्यः ? । पावनेभ्यः-पवित्रेभ्यः। पुनः कथंभूतेभ्यः ? । ' सन्नयनरवरदेभ्यः ' नयने-लोचने रवः-शब्दः रदा-दन्ताः, नयने च रवश्व रदाश्च नयनरवरदं । इतरेतरद्वन्द्वः, 'प्रोण्यङ्गतूर्यसेनाङ्गानाम् ' इति एकवद्भावः, सत्-शोभनं नयनरवरदं येषां ते तथा तेभ्यः । इन्दीवरश्रीतिरस्कारित्वेन नयनयोः स्निग्धगंभीर.
१ 'सत् नयनरवरदं ' इति प्रतिभाति । २ 'प्राणितूर्याङ्गानाम् ' इति सिद्धहैमे ( अ० ३, पा० १, सू. १३७)।
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org