________________
स्तुतिचतुर्विशतिका
[१७ श्रीकुन्थु
रज्जव: तैरयमिति-असम्बद्धा ये शमिन:-साधवः तेषां तम:-अग़ानं तत् हन्तीति अक्षपाशायमितशमितमोहस्तस्मै 'अक्षपा-शायमितशमतमोहाय' । इदमपि कुन्थुनाथाय इति पदस्य विशेषणम् । पुनः किं विशिष्टो यः ? । (आयामिन:-विस्तारिण:) (अमिता:-अपरिमिताः) ये अपाया-विघ्नास्तान् हरतीति 'आयामि (अमिता)तापायहत्' । एतादृशाय कुन्थुनाथाय नमः भवतु-अस्तु । इति पदार्थः ॥
अथ समासः-को-पृथिव्यां स्वामित्वेन तिष्ठतीति कुन्थुः, कुन्थुश्चासौ नाथश्च कुन्थुनाथा, श्रिया [युक्तः]-चतुर्विंशतिशयलक्ष्म्या युक्तः कुन्थुनाथः श्रीकुन्थुनाथः, तस्मै श्रीकुन्थुनाथाय । न मितः अमित:, शं-सुखं इत:-प्राप्तः शमितः, अमितश्चासौ शमितच अमितशमित:, अमितशमितश्चासौ मोहश्च अमितशामितमोहः, आयामः अस्यास्तीति आयामी, आयामी चासी तापश्च आयामितापः, अमितशामितमोहश्च (1) आयामितापो येन सः अमितशमितमोहायामितापस्तस्मै अमितशमितमोहायामितापाय । सकलं च तद् भरतं च सकलभरतं, सकलभरतस्य भर्ता सकलभरतभर्ता । रागादीन् शत्रून् जयतीति जिनः । अक्षाण्येव पाशाः अक्षपाशाः, न यमिता अयमिताः, अक्षपाशैरयमिता अक्षपाशायमिताः, अक्षपाशायमिताश्च ते शमिनश्च अक्षपाशायमितशमिनः, अक्षपाशायमितशमिनां तमांसि अक्षपाशायमितशमितमांसि, तान हन्तीति अक्षपाशायमितशमितमोहः, तस्मै अक्षपाशायमितशमितमोहाय । न मित अमितः, अमितश्चासौ अपायश्च अमितापायः, अमितापायं हरतीति अमितापायहत् ॥ मालिनीछन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥१॥
दे०व्या०-भवत्विति। तस्मै (श्री)कुन्थुनाथाय मम नमः-नमस्कारी भवतु इत्यन्वयः। भू सत्तायाम्' धातुः । ' भवतु । इति क्रियापदम् । कः कर्ता ? । नमः । कस्मै ? । (श्री)कुन्थुनाथाय । कस्य ? मम । किविशिष्टाय श्रीकुन्थुनाथाय ? । ' अमितशमितमोहायामितापाय, अमितः-अप्रमाणः शमो-विनाशं नीतः मोहस्य आयामिताप:-आनाहसन्तापो ये न स तस्मै । "दैर्घ्य मायाम आनाहः'' इत्यभिधानचिन्तामणिः (का०६. श्लो०६७) । यत्तदोर्नित्याभिसम्बन्धाद यः श्रीकन्थनाथः सकलभरतभर्ताऽपि जिन:-तीर्थङ्करः अभूत-आसीत् इति अन्वयः । 'भू सत्तायाम्' धातुः । 'अभूत' इति क्रिया-पदम् । : कर्ता ? 'श्रीकुन्थुनाथः' । किंविशिष्टः श्रीकुन्थुनाथः ? 'जिनः' रागादिजेतृत्वात् जिनः । पुनः किंविशिष्टः ? । 'सकलभरतभर्ता' सकलं-समग्रं तद भरतं-भरतक्षेत्रं तस्य भर्ता-प्रभः | अपिशब्दो विरधाभासालङ्काराय | पुनः किंविशिष्ट: ।। हृद्यःप्रियः। कस्मै ? 'अक्षपाशायमितशामितमोहाय , अक्षाणि-इन्द्रियाणि तेषां पाशैः-बन्धनैः अयमिताअबद्धाः ते च ते शमितमोहाश्चेति विग्रहः तस्मै । “पाशस्तु बन्धनग्रन्थिः" इत्यभिधानचिन्तामणिः (का०३, श्लो. ५९५)। पुनः किंविशिष्टः ?।'अमितापायहृत् । अमितान-अप्रमाणान् अपायान-कष्टान् हरतीति अमितापायहृत् ॥ इति प्रथमवृत्तार्थः॥१॥
सकलतीर्थपतिभ्यः प्रणतिः
सकलजिनपतिभ्यः पावनेभ्यो नमः सन्
नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद् गरीयोनयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ २ ॥
-मालिनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org