________________
विगतः] स्तुतियाविंशतिका
१० सि० ० --भवस्विति । कुन्थुनाथः को-पृथिव्यां स्थितिमान् इति कुन्थुः, " क्षितिः क्षोणिः क्षमाऽनन्ता, ज्या कुर्वसुमतिर्मही" इति हैमः (अभि० का० ४, श्लो० २ ), पृषोदरादित्वात् सकारलोपः, गर्भस्थेऽस्मिन् माता विचित्रं कुन्थुरूपं दृष्टवतीति वा कुन्थुः, स चासौ श्रियोफ्लक्षितो नाथः श्रीकुन्थुनाथः तस्मै मम नमःनमस्कारो भवतु इति संबन्धः । 'भू सत्तायाम्' धातुः अग्रे 'आशीःप्रेरणयोः' (सा०सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप । 'अप् कर्तरि' (सा०सू०६९१) इत्यप, 'गुणः' ( सा० स० ६९२), 'ओ अव् ' ( सा० सू० ४२), 'स्वरहीनं०' (सा० सू० ३१ )। तथाच 'भवतु' इति सिद्धम् । अत्र 'भवतु' इति क्रियापदम् । किं कर्त। नमः। कस्मै । श्रीकुन्थुनाथाय । कथंमताय श्रीकुन्थुनाथाय ! । 'अमितशमितमोहायामितापाय' अमितः-अप्रमाणः शमितः-शमं नीतो मोहोमोहनीयं स एव आयामितापो-( दीर्घ )दवथुर्येन स तथा तस्मै । अमितश्चासौ शमितश्च अमितशमितः, आयामी चासौ तापश्च आयामितापः इति 'कर्मधारयः । पुनः कथंभूताय ? । ' अक्षपाशायमितशमितमोहाय' अक्षाण्येव-इन्द्रियाण्येव पाशा-रजवः तैः अयमिता-अबद्धा ये शमिनो-मुनयः तेषां तमोहायअज्ञानघातिने । पुनः कथंभूताय ! । तस्मै । तस्मै कस्मै । यः कुन्थुनाथः सकलमरतमा-ममस्तमारतस्वामी, पक्रवर्तीत्यर्थः । बिमर्ति षट्खण्डानीति 'भरतः' । ' डुभृञ् धारणादौ ' मृमृदृशियजिपर्विपच्यमिनमितमिनमिहयिभ्योऽतच्' (उणा० सू०३९०) तस्य मतां निनोऽपि-तीर्थकरोऽपि अभद्-अमवदित्यर्थः । अपिः समुच्चयार्थे। यद्वा अपिशब्दोऽत्र यः सकलभरतभर्ता स कथं जिनः स्यात् इति विरोधसूचकः । 'भू सत्तायाम्' धातोः भते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । इकार उच्चारणार्थः 'भूते सिः' (सा० म० ७२४), 'दिबादावट' (सा०सू०७०७), अभू सद् इति स्थिते 'दादेः पे' (सा०सू०७२५) इति सेर्लोपः । अत्र ‘अभूत्' इति क्रियापदम् । कः कर्त्ता ? 'यः' । कथम्भूतो यः ? यः सकलमरमर्ता सकलं-समग्रं षट्खण्डलक्षणं यद् भरतंमरतक्षेत्रं तस्य मर्ता-स्वामी धारको वा । “ मर्ता स्वामिनि धारक” इति विश्वः। पुनः कथंभूतः १ । यो निलो हृद्यः-मनोहरः । पुनः कमृतः । । 'अमितापायहृत्' अमितान्-अपरिमित्तान् अपायान्-कष्टान् हरतीस्थमितापायहृत् ॥ १॥
सौ० वृ०-यः शान्तिकृद् भवति स कौ-पृथिव्यां स्थावरजङ्गमप्राणिनां रक्षको भवति। अनेन सम्बन्धेनायातस्य श्रीकुन्थुनामसप्तदशमजिनस्य स्तुतिव्याख्यानं व्यक्तीकरोमि-भवत्विति ।
तस्मै श्रीकुन्थुनाथाय मम नमः भवतु इत्यन्वयः। ‘भवतु' इति क्रियापदम् । किं कर्तृ ? । 'नमः' प्रणामः । भवतु ' अस्तु । कस्य ? । 'मम' मत्सम्बन्धी। कस्मै । श्रीशब्दः पूज्यार्थे ' श्रीकुन्थुनाथाय ' कुन्थुनाथस्वामिने । किंविशिष्टाय श्रीकृन्थुनाथाय ? । अमितः-अपरिमितः शमितः-शमं नीतः तादृशो यो मोहो-मोहनीयकं कर्म तस्य आयामी-दीर्घविस्तारी तापो-दवथुर्यन स (तस्मै ) 'अमितशमितमोहायामितापाय' । पुनः किंविशिष्टाय श्रीकुन्थुनाथाय? । 'तस्मै' प्रसिद्धाय । प्रक्रान्तप्रसिद्धार्थस्तच्छब्दो यच्छब्दमपक्षते । तस्मै कस्मै ? । यः श्रीकुन्थुनाथ: सकलं-संपूर्ण यद् भरतं-भरतक्षेत्रं षटखण्डलक्षणं तस्य भर्ता-स्वामी चक्रवर्ती अपि जिनः-तीर्थकरः अभूदित्यन्वयः । 'अभूत् ' इति क्रियापदम् । काकतो? । यः श्रीकुन्थुनाथः अभूत-जातः। किंविशिष्टो यः। 'जिनः'तीर्थकरः। पुनः किंविशिष्टो यः । 'सकलभरतभर्ता' । अपिशब्दः समुच्चयार्थे । चक्रवर्ती भूत्वा जिनो जात इत्यर्थः । पुनः किंविशिष्ठो यः। 'हृधः' मनोहरः । पुनः किंविशिष्टाय ? । अक्षाणि-इन्द्रियाणि तान्येव पाशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org