________________
१७ श्रीकुन्थुजिनस्तुतयः अथ श्रीकुन्थुनाथाय वन्दनम्
भवतु मम नमः श्रीकुन्थुनाथाय तस्मा
यमितशमितमोहायामितापाय हृद्यः। सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृदयः ॥१॥
-मालिनी ( ८, ७) ज० वि०-भवत्विति । श्रीकुन्युनाथाय-श्रीकुन्थुनाथनाम्ने जिनाय, श्रीशब्दः प्राग्वत्, मम में नमस्कारो भवतु-अस्तु इति क्रियाकारकप्रयोगः । अत्र ' भवतु' इति क्रियापदम् । कि कर्त? 'नमः ।। कस्मै ? ' श्रीकुन्थुनाथाय । कस्य ? ' मम' । कथंभूताय श्रीकुन्थुनाथाय ? ' अमितशमितमोहायामितापाय ' अमितः-अपरिमितः शमितः-शमं नीतः मोहः-मोहनीयं (कर्म)स एव आयामितापो-दीर्घदवथुर्येन स तथा तस्मै । पुनः कथं० ? ' अक्षपाशायमितशमितमोहाय' अक्षपाशैः--इन्द्रियरज्जुभिः अयमिता-अबद्धा ये शमिनो-मुनयस्तेषां तमोहाय-अज्ञानपातिने । तरमै इति तच्छब्दसाहचर्याद यच्छब्दघटनामाह-यः श्रीकुन्थुनाथः सकलभरतभर्तासकलभारतस्वामी चक्रवर्तीत्यर्थः, जिनोऽपि-तीर्थंकरोऽपि अभूत्-अभवत् । अपिशब्दः समुच्चयार्थः। अत्रापि अमूत ' इति क्रियापदम् । कः कता ? 'यः । कथंभूतोऽभूत् ? 'सकलभरतमा। पुरा कथं १ 'जिनः कथम् ? ' अपि ।। यः कथंभूतः ? ' हृद्यः' मनोहरः। पुनः कथं ? 'अमितापायहत् । अमितान्-अपरिमितान् अपायान् इस्तीत्यमितापायहत् ॥
अथ समास:-कुन्युश्चासौ नायश्व कुन्थुनाथः 'कर्मधारयः'। श्रियोपलक्षितः कुन्युनाया श्रीलन्यु० 'तरपुरुष' । तस्मै श्रीकुन्थु०। अमितश्चासौ शमितश्च अमित० 'कर्मधास्य। आयामी चासौ तापश्च आया० 'कर्मधारयः' । मोहश्चासावायामितापश्च मोहाया. कर्मधारयः ।। अमितशमितो मोहायामितापो येन सोऽमित० 'बहुव्रीहिः । तस्मै अमित । सकलं च तद् भरतं च सक० 'कर्मधारयः । सकलभरतस्य भर्ता सक० 'तत्पुरुषः ।। अक्षाण्येव पासा: अक्षपाशा ' कर्मधारयः । । न यमिता अयमिताः तत्पुरुषः' । अक्षपार्शरयमिता अक्षपा० ' तत्पुरुषः' । अक्षपाशायमिताश्च ते शमिनश्च अक्षपा० 'कर्मधारयः'। तमो इन्तीति तमोहः 'तत्पुरुषः । अक्षपाशायमितशमिनां तमोहः अक्षपा० 'तत्पुरुषः'। तस्मै अक्षपा० । अमितश्चासापायच अमितापायः ‘कर्मधारयः ।। अमितापायं हरती. स्यमितापायहृत् ' तत्पुरुषः ' ॥ इति काव्यार्थः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org