________________
जिनस्तुतयः]
स्तुतिचतुविशतिका
१८१
निरन्तरं ईक्षणेन-विलोकनेन कृत्वा हितं अधारयत् इत्यन्वयः। 'अधारयत्' इति क्रियापदम् । कः कर्ता ? । 'यः' ब्रह्मशान्तिः । 'अधारयत्' अदधत् । किं कर्मतापत्रम् ? । 'हितं'शुभम् । केन !'ईक्षणेन'। कस्य । 'शमिना' । कथम् ? । 'अनिशं' निरन्तरम् । किं कृत्वा ।'सन्त्यज्य' त्यक्त्वा । कां कर्मतापमाम् ? । 'मूढतां' अज्ञानताम् । किंविशिष्टं हितम् ! । मुक्ता-त्यक्ता अक्षमा-कोपो येस्ते मुक्ताक्षमाः-साधवस्तेषां आली-श्रेणिस्तस्या इंहितं-वाञ्छितं सिद्धिपदं यस्मिन् तत् 'मुक्ताक्षमालीहितम् ' । इति पदार्थः॥
अथ समासः- दण्डश्च छत्रं च कमण्डलु च दण्डच्छत्रकमण्डलूनि, तान दण्डच्छत्रकमण्डलूनि । ब्रह्मणा-ज्ञानेन शान्तिः ब्रह्मशान्तिः । ज्या-हानिः, नास्ति ज्या येषु तानि अज्यानि। [ सन्ति च तानि अज्यानिच सन्त्यज्यानि]। शमः अस्यास्तीति (शमी)। पुनःब्रह्मशान्तिः इनः-स्वामी। अक्षाणां माला अक्षमाला, मुक्तानां अक्षमालाऽस्यास्तीति मुक्ताक्षमाली । तप्तं च तद् अष्टापदं च तप्ताष्टापदं, तप्ताष्टापदस्य पिण्डः तप्ताष्टापदपिण्डः, तप्ताष्टापदपिण्डवत् पिङ्गला रुचिर्यस्य स तप्ताष्टापदपिण्डपिङ्गलरुचिः । मूढस्य भावो मूढता, तां मूढताम् । शमोऽस्यास्तीति शमी, तस्य शमिनः। न क्षमा अक्षमा, मुक्ता अक्षमा यैस्ते मुक्ताक्षमाः, मुक्ताक्षमानां आली मुक्ताक्षमाली, मुक्ताक्षमाल्या ईहितं यस्मिन् तत् मुक्ताक्षमाली. हितम् ॥इति चतुर्थवृत्तार्थः॥४॥
श्रीमच्छान्तिाजनेशस्य, स्तुतेरर्थो लिबीकृतः।
सौभाग्यसागराख्येण, सूरिणा ज्ञानधारिणा ॥१॥ ॥ इति षोडशमजिनशान्तिनाथस्य स्तुतेरर्थो लिबीकृतः ॥ ४।१६।६४॥ दे०व्या०-दण्डच्छति । स ब्रह्मशान्तिर्यक्षः क्षणेन-वेगेन यथा भवति तथा शं-सुखं क्रियान-कुर्यात इत्यन्वयः। 'हुकृञ् करणे' धातुः ।' क्रियात् ' इति क्रियापदम् । कः कर्ता। सब्रह्मशान्तिः। किं कर्मतापन्नम् ? । शम् । कथम् ? । क्षणेन । अव्ययमेतत् । “सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे " इत्यभिधानचिन्तामणिः (का०६, श्लो०१६८)। किं कुर्वन् यक्षः।कलयन-उद्वहन, धारयन्नितियावत् । कानि।। 'दण्डच्छत्रकमण्डलूनि' दण्ड:-प्रहरणविशेषः छत्र-आतपत्रं कमण्डलु कुण्डिका, एतेषां 'इन्द्रः । तानि किंविशिष्टानि । सन्ति-शोभनानि । पुनः किंविशिष्टानि?'अज्यानि' नास्ति ज्या[निः-जरा येषां तानि. देवताधिष्ठितत्वेन तत्सम्भवात् । यत्तदोर्नित्याभिसम्बन्धाद् यो ब्रह्मशान्तिः कस्यापि शमिन:-तपस्विनः ईक्षणेन-विलोकनेन हितं-पश्यम् अधारयत्-धारयामासेत्यन्वयः। 'दुधाञ् धारणपोषणयोः' इति धातः । किं कृत्वा ।। संत्यज्य-परिहृत्य । काम् ? ।' अज्ञतां अज्ञस्य भावः अज्ञता तां, मूर्खस्य भावतामित्यर्थः । 'भावे तत्वयणः (सा०सू०५९१) इति तप्रत्ययः। किंविशिष्टंहितम् । मुक्ताक्षमालीहितम्' मुक्ता-स्यक्ता अक्षमा यैस्ते मुक्ताक्षमा-मुमुक्षवः तेषां आली-परम्परा तस्या ईहितं-वाञ्छितं, अक्षमा-क्रोधः। यत् तु किंविशिष्टं शमाईहितं-चेष्टितम् । किविशिष्टो यक्षः। 'मुक्ताक्षमाली ' मुक्ता अक्षमायाः आली-परम्परा येन स तथेति पृथक् पदद्वयमिति कश्चित् तन्न, अर्थानवबोधात् । किंविशिष्टो यक्षः । 'शमी' शमोऽस्यास्तीति शमी-उपशमवान् । पुनः किविशिष्टः।। इनः-स्वामी, सर्वेषां रक्षाकरणत्वात् । पुनः किंविशिष्टः।'मुक्ताक्षमाली' मुक्तायाः-मुक्ताफलस्य अक्षमाला-जपमाला विद्यते यस्यासौ मुक्ताक्षमाली।"शुक्तिजं मौक्तिक मुक्ता" इत्यभिधानचिन्तामणिः (का०४, श्लो० १३४) । पुनः किविशिष्टः। तप्ताष्टापदपिण्डपिङ्गलरुचिः''तप्तं-वृतं यद् अष्टापदं-सुवर्णे तस्य पिण्ड:-समुदायः तद्वत् पिङ्गला-कपिला पतिरक्ता इतियावत् रुचि:-कान्तिर्यस्य स तथा। “कपिलः पिङ्गलः श्यावः' इत्यभिधानचिन्तामणिः (का०६, श्लो०३९) इति तुरीयवृत्तार्थः॥४॥ शार्दूलविक्रीडितच्छन्दः । अस्य भेदकत्वा(त्वमा ? यस्तुतौ पूर्वमेवोहिष्टमिति॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org