SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १८० स्तुतिचतुर्विशतिका [१६ श्रीशान्तिसि० वृ०-दण्डच्छत्रेति । स ब्रह्मशान्तिः-ब्रह्मशान्तिनामा यक्षः शं-सुखं क्रियात्-विधयात् इत्यर्थः । ' डुकृञ् करणे' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियानिष्पत्तिप्रकारस्तु पूर्वमेवोक्तः । अत्र ‘क्रियात् ' इति क्रियापदम् । कः कर्ता ? । ब्रह्मशान्तिः। किं कर्मतापन्नम् ! । शम् । कथम् ! । क्षणेन-सपदि । ब्रह्म शान्तिः किं कुर्वन् । कलयतीति 'कलयन् ' धारयन् । कानि ! । 'दण्डच्छ . अकमण्डलनि ' दण्डो-दण्डः छत्रं-आतपत्रं कमण्डलु:-कुण्डिका तानि । दण्डश्च छत्रं च कमण्डलु च दण्डच्छत्रकमण्डलूनि । इतरेतरद्वन्द्वः' । कथंभूतानि । सन्ति-शोभनानि। पुनः कथंभूतानि ? । अज्यानि-अहीनानि । ब्रह्मशान्तिः कथंभूतः ? । 'शमी' शमः-उपशमः सोऽस्यास्तीति शमी, प्रशमवानित्यर्थः। पुनः कथंभूतः ।। इनः-प्रभुः, कतिपयदेवदेवाङ्गनानां प्रभुत्वात् । “इनः सूर्ये प्रभौ राजा" इत्यमरः (श्लो०२५५७)। पुनः कयंभूतः। मुक्ताक्षमाली' मुक्तानां-मुक्ताफलानां अक्षमाला-जपमालिका सा अस्यास्तीति मुक्ताक्षमाली।पुनः कथंभूतः ।। 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तं-द्रुतं यद् अष्टापदं-सुवर्ण तस्य पिण्डो-गोलकः तद्वत पिङ्गला-पीतरक्ता रुचि:-कान्तिः यस्य स तथा । "पतिरक्तस्तु पिञ्जरः । कपिलः पिङ्गलः श्यावः" (अभि० का० १, श्लो० १२), "पिङ्गलः स्वर्णवर्णवत्" इति तु शब्दार्णवः । तथाच सितपीतहरिद्रक्तः पिङ्गल इत्यर्थः । स इति स कः ।यो ब्रह्मशान्तिः शमिनः कस्यापि मुनेर्हितं-परिणतिसुखं अहर्निशं-निरन्तरं ईक्षणेन-विलोकनेन कृत्वा अधारयत्-धारयामासेत्यर्थः । 'धृञ् धारणे' धातोरनद्यतने अतीते कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिवादाक्ट्' (सा० सू० ७०७), 'चुरादेः' (सा० स० १०३१) इति निः, 'गुणः' (सा० सू० १९२) इति गुणः, 'ए अय्' (सा० स०४१), 'स्वरहीनम्' (सा० स० ३६)(तथाच) 'अधारयत्' इति सिद्धम् । अत्र 'अधारयत्' इति क्रियापदम् । कः कर्ता ! । यः। किं कर्मतापन्नम् । हितम् । कस्य ! । 'शमिनः' शमोऽस्यास्तीति शमी तस्य शमिनः । । केन कृत्वा ! । ईक्षणेन । कथम् ? । अनिशम् । कीदृशं हितम् ? । 'मुक्ताक्षमालीहितं' मुक्ता अक्षमा-क्षमारहितता यैस्ते तथा अर्थात् साधवस्तेषां आली-पङ्किः तस्या ईहितं-चेष्टितम् । किं कृत्वा । संत्यज्य-त्यक्त्वा । काम् ! । मूढस्य भावो मूढता तां मूढतां, अज्ञतामित्यर्थ ॥४|| शार्दूलविक्रीडितं छन्दः । तल्लक्षणं तु प्रथमस्तुतौ पूर्वमेवोक्तम् ॥ ॥ इति महामहोपाध्यायश्रीभानुचन्द्रगणि० श्रीशान्तिनाथस्य स्तुतिवृत्तिः ॥ १६ ॥ सौ० वृ०-दण्डच्छति। स ब्रह्मशान्ति म यक्षः शं-सुखं क्षणेन-वेगेन क्रियादित्यन्वयः । ‘कियात्' इति क्रियापदम् । कः कर्ता ? 'ब्रह्मशान्तिः'। ‘क्रियात् ' कुर्यात् । किं कर्मतापनम् । 'शं' सुखम् । “शं सुखे बलवति(त् !) सुष्ठ" इति हैमः (का०६, श्लो० १७१)। ब्रह्मशान्तिः किं कुर्वन् ! । 'कलयन्' । कानि कर्मतापनानि ? । दण्डो-यष्टिः छत्रं-आतपवारणं कमण्डलुःकुण्डिका तानि 'दण्डच्छत्रकमण्डलूनि ' । कथंभूतानि दण्डच्छत्रकमण्डलूनि ? । 'सन्ति' शोभनानि, विद्यमानानि वा । अत एव ज्या-हानिः सा न विद्यते येषु तानि 'अज्यानि', शाश्वतानीत्यर्थः । किंविशिष्टो ब्रह्मशान्तिः ? । 'शमी' उपशमवान् । पुनः किंविशिष्टो ब्रह्मशान्तिः ।। मुक्तानां-मौक्तिकानां अक्षम ला-स्नानजाप्यमाला अस्यास्तीति 'मुक्ताक्षमाली' । पुनः कथंभूतो ब्रह्मशान्तिः । तप्तं-तापितं यत् अष्टापदं-सुवर्ण तस्य पिण्डो-गोलः तद्वत् पिङ्गला-पीता रुचिः-कान्तिर्यस्य स 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' । पुनः किंविशिष्टो ब्रह्मशान्तिः। 'सः'प्रसिद्धः। सच्छब्दो यच्छब्दमपेक्षते । सः कः ? । यो ब्रह्मशान्तिः शमिनः-शमवतः साधोः सज्जनस्य वा अनिश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy