________________
पर
जिमस्तक]
स्वातिचतुर्विशतिका भीममशान्तियक्षस्य स्तुतिः
दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात्
सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ४ ॥
-शार्दूल. ज० कि०-दण्डच्छति । स ब्रह्मशान्ति:-ब्रह्मशान्तिनामा यक्षः शं-सुखं क्रियात्विधेयात् इति क्रियाकारकसण्टा । अत्र ‘क्रियात् । इति क्रियापदम् । कः कर्ता ? 'ब्रम
मन्तिः । किं कर्मताफ्नम् ? ' शम् ।। कथम् ? ' क्षणेन ' सपदि । ब्रह्मशान्तिः किं कुर्वन् ! 'कलयन्' उद्वहन् । कानि कर्मतापन्नानि ? 'दण्डच्छ चकमण्डलूनि' दण्डो-यष्टिः छत्रं-आतपत्रं कमण्डलु:-कुण्डिका तानि । (दण्ड०) कथंभूतानि ? 'सन्ति । शोभनानि । पुनः फर्वभूतानि ! 'अभ्यानि । अहीनानि । ब्रह्मशान्तिः कथंभूतः ? ' इनप्रभुः। पुनः कथंभूतः ? ' मुका. समाळी' मुक्ताक्षमालावान् । पुनः कथं० ? ' तप्ताष्टापदपिण्डपिङ्गलरुचिः। ततः-उत्तप्ता या अष्टापदपिण्-कनकगोलः तद्वत् पिङ्गलरुचिः-कपिलच्छविः । पुन: किंविशिष्टः १ 'शमी' प्रशमवान् । स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यो ब्रह्मशान्तिः शमिनः-मुनेः कस्यापि हित-परिणाममुखं 'मुक्ताक्षमालीहितं ' मुक्ता अक्षमा यैस्ते तथा ( अर्थात् ) साधवस्तेषामालीश्रेणी तस्या ईहितं-चेष्टितं हितं-परिणामसुखम् अधारयद्- धृतवान् । अत्रापि ' अधारयत् । इति क्रियापदम् । कः कतो ? ' यः । किं कर्मतापन्नम् ? 'हितम् ।। हितं कथंभूतम् । 'मुक्ताक्षमालीहितम्' । केन कृत्वा ? 'ईक्षणेन' विलोकनेन । कथम् ? ' अनिशम् । अनवरतम् । किं कृत्वा ? ' सत्यज्य ' त्यक्त्वा । को कर्मतापन्नाम् ? ' मूढता ' अज्ञताम् ॥
अथ समासः-दण्डश्च छत्रं च कमण्डलु च दण्डच्छत्रकमण्डलूनि । इतरेतरद्वन्दः । तानि दण्ड । मुक्तानामक्षमाला मुक्ताक्षमाला ' तत्पुरुषः' । मुक्ताक्षमालाऽस्यास्तीति मुक्ता० । अष्टापदस्य पिण्डोऽष्टापदपिण्डः ' तत्पुरुषः । तप्तश्चासावष्टापदपिण्डश्च तप्ताष्टा० कर्मधारयः'। तप्ताष्टापदपिण्डवत् पिङ्गला तप्ताष्टा ० ' तत्पुरुषः । तप्ताष्टापदपिण्डपिङ्गला रुचियस्य स तप्ताष्टा. 'बहुव्रीहिः'।न क्षमा अक्षमा ' तत्पुरुषः ' । मुक्ता अक्षमा यैस्ते मुक्ताक्षमाः 'बहुव्रीहिः ।। मुक्ताक्षमाणामाली मुक्ताक्षमाली ' तत्पुरुषः ।। मुक्ताक्षमाल्या ईहितं मुक्ताक्ष० ' तत्पुरुषः ।। तत मुक्ता० ॥ इति काव्याथेः॥४॥
॥ इति श्रीशोमनस्तुतिवृत्तौ श्रीशान्तिनाथस्य स्तुतेर्याख्या ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org