________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका पर्युल्ल. ' बहुव्रीहिः । न विद्यते भङ्गो येषां ते अभङ्गाः ‘बहुव्रीहिः' । महान्तश्च ते अरयश्च महारयः 'कर्मधारयः । पर्युल्लसल्लीलाश्च ते अभङ्गाश्च पर्युल्ल० 'कर्मधारयः ।। पर्युल्लसल्लीलाभङ्गाश्च ते महारयश्च पर्युल्लस० कर्मधारयः । पर्युल्लसल्लीलाभङ्गमहारीन् भिनत्तीत्येवंशीळं पर्युल्लस० ' तत्पुरुषः । न विद्यते अन्तो येषां ते अनन्ताः 'बहुव्रीहिः' । हृयाश्च ते अमराश्च हृद्यामराः 'कर्मधारयः। न विद्यते पापं येषां ते अपापाः ('बहुव्रीहिः) । अपापाश्च ते हृद्यामराश्च अपापहृद्यामराः ('कर्मधारयः) । अनन्ताश्च ते अपापहृयामराश्च अनन्ता० 'कर्मधारयः। नमन्तोऽनन्तापापहृद्यामरा यस्य तन्नमद० 'बहुव्रीहिः। ॥ इति काव्यार्थः ॥ ३॥
सि. वृ०-जैनेन्द्रमिति । जिनेन्द्रस्येदं जैनेन्द्र-जिनेन्द्रसंबन्धि मतं-दर्शनं सम्यम्हशो येषां ते सम्यग्दृशः तेषां सम्यग्दृशां-सम्यग्दृष्टीनां सद्गुणालीलाम-सद्गुणश्रेणीप्राप्ति सततं-निरन्तर आतनोतु ' आसमन्ताद् विस्तारपतु इत्यर्थः। आपूर्वक : तनु विस्तारे ' धातोः 'आशीःप्रेरणयोः' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' आतनोतु ' इति क्रियापदम् । किं कर्तृ? । मतम् ! के कर्मतापन्नम् ।। ' सद्गुणालीलाम' सन्तः-शोमना ये गुणास्तेषां ( आली-पतिस्तस्या ) लामः-प्राप्तिः तम् । केषाम् ? । सम्यग्दृशाम् । कथम् ? । सततम् । मतं किमात्मीयम् !। जैनेन्द्रम् । कथंभूतम् । 'गमहारि' गमा -सदृशपाठाः तैर्हा रि-मनोहरम् । पुनः कथम्भूतं मतम् ? । 'भिन्नमदनं' भिन्नो-विदारितो मदनो येन तत्, तदुच्छेदपरत्वेनास्य सिद्धत्वात् । पुनः कथंभूतम् ? । ' तापापहृत् । तापं अर्थात् संसारजनितं अपहरतीति तापापहृत् । पुनः कथंभूतम् ? । ' यामरं' यामानि-अहिंसाद्यात्मकानि महाप्रतानि राति-ददातीति यामरम् । पुनः कथंभूतम् ! । 'दुनिर्भेदनिरन्तरान्तरतमोनिशि ' दुनिर्भेद-दुःखेन दूरीकर्तु शक्यं तन्निरन्तरं-निर्विवरं आन्तरं-अन्तर्मवं एतादृशं यत् तमः-अज्ञानं तन्निनाशयतीत्येवंशीलम् । दुर्निर्मेदं च निरन्तरं च दनिर्भेदनिरन्तरं इति । कर्मधारयः', आन्तरं च तत तमश्चान्तरतमः 'कर्मधारयः, दनिर्मेदनिरन्तरं च तद् आन्तरतमश्च दुर्निर्मेदनिरन्तरान्तरतमः, दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशयतीत्येवंशीलं दुर्निर्मदनिरन्तरान्तरतमोनि शि, सर्वत्र · कर्मधारयः'। पुनः कथंभूतम ? । ' पर्युल्लसल्लीलामङ्गमहारिमित् ' पर्युल्लसन्ती लीला येषां ते पर्युलसल्लीलाः, न विद्यते मङ्गः-पराजयो येषां ते अमङ्गाः महान्तः-प्रकृष्टाश्च ते अरयश्च महारयः, ततः पर्युल्लसल्लीलाश्च ते अमङ्गाश्च ते महारयश्च ते तथा तान् मिनत्तीत्येवंशीलम् । पुनः कथं. भूतम् ! । ' नमदनन्तापापहृयामरं । नमन्तः-प्रणामं कुर्वन्तः अनन्ताः-अपरिमिताः ( अपापा:-तपापाः) ते च ते हृद्या:--मनोज्ञाः अमरा-देवाः यस्य तत् ॥ ३ ॥
सौ० वृ०-जैनेन्द्रमिति । जैनन्द्रं मतं-तीर्थकरप्रवचनं सम्यग्दृशा-सम्यग्दृष्टीनां सततं-निरन्तरं 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणाः-क्षमामार्दवार्जवादयः तेषां आली-श्रेणिः तस्या लामाप्राप्तिः तं सद्गुणालीलाभं] आतनोतु इत्यन्वयः । 'आतनोतु' इति क्रियापदम् । किं कर्तृ । 'मतं' प्रव. चनम् । 'आतनोतु' विस्तारयतु । के कर्मतापन्नम् ? । 'सद्गुणालीलाभम्' । केषाम् ? । 'सम्यग्ड. शाम् । कथम् । 'सततं निरन्तरम् । किंविशिष्टं मतम् ? । 'जैनेन्द्र' तीर्थकरसत्कम् । पुनः किंविशिष्ट मतम् ? । गमाः-सहशपाठाःतैः कृत्वा हारि-मनोहरं 'गमहारि। पुनः किंविशिष्टं मतम् । तापः-संसारभ्रमणलक्षणः तं अपहरतीति तापापहृत् । पुनःकिंविशिष्टं मतम् । यामा-महाव्रतानि राति-ददातीति तत् 'यामरम्' । पुनः किंविशिष्टं मतम् । दुःखेन नितरां भियते इति 'दुनिर्भेदं तादृशं यत् निरन्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org