________________
१७६ स्तुतिचतुर्विशतिका
[१६ श्रीशान्तिजिनमतस्य स्तुतिः
जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा___ लीलाभं गमहारि भिन्नमदनं तापापहद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिाशि पर्युल्लसल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ ३ ॥
___-शार्दूल. ज० वि०-जैनेन्द्रमिति । जैनन्द्र-जिनेन्द्रसम्बन्धि मतं-दर्शनं सम्यग्दृशां-सम्यग्दृष्टीनां 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणास्तेषां ( आली-पकिस्तस्या) लाभ-प्राप्तिं सततंनिरन्तरं आतनोतु- समन्ताद विस्तारयतु इति क्रियाकारकसंयोजनम् । अत्र 'आतनोतु' इति क्रियापदम्। किं कत ?'मतम्' । कं कर्मतापन्नम् ? 'सद्गुणालीलाभम् ।। केषाम् ? 'सम्यग्दृशाम् ।। कथम् ? 'सततम्' । मतं किमीयम् ? 'जैनेन्द्रम् । कथंभूतं मतम् ? 'गमहारि' गमैः-सदृशपाठहरिमनोहरम् । पुनः कथं० ? ' भिन्नमदनम् । विदारितमारम् । पुनः कथं० १ ' तापापहृत् । तापमपहरतीति तापापहृत् । पुनः कथं० १ 'यामरं' यामानि-व्रतानि राति-ददातीति यामरम् । पुनः कथं० १ ' दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि' दुनिर्भेद-दु:खच्छे द्यं निरन्तरं-निर्विवरं आन्तरं-मनोऽन्तभवं एतादृशं यत् तमो-मोहस्तं निर्नाशयतीत्येवंशीलम् । पुनः कथं० १' पर्युल्लसल्लीलाभङ्गमहारिभित ' पर्युल्लसल्लीला:-प्रोद्यद्विलासा अभङ्गा-अजेया ये महारयो-महाप्रतिपक्षा अर्थात् रागद्वेषादयस्तान भिनत्ति यत् तत् तथा । पुनः कथं० १ 'नमदनन्तापापहयामरं । नमन्त:-नमस्कुर्वन्तः अनन्ता-अन्तरहिता अपापा:-पापरहिता हृया-मनोज्ञा अमरा-देवा यस्य तत् तथा ॥
अथ समास:-जिनानां जिनेषु वा इन्द्रः जिनेन्द्रः 'तत्पुरुषः '। जिनेन्द्रस्येदं जैनेन्द्रम् । सम्यग् दृशौ येषां ते सम्यग्दृशः 'बहुव्रीहिः । तेषां सम्यग्दृशाम् । सन्तश्च ते गुणाश्च सद्गुणाः 'कर्मधारयः ।। सद्गुणानां आली सद्गुणाली ' तत्पुरुषः । सद्गुणाल्या लाभः सद्गु० ' तत्पुरुषः' । तं सद्गुणा० । गमैहोरि गमहारि ' तत्पुरुषा' । भिन्नी मदनो येन तद् भिन्नमदनं ' बहुग्रीहिः ।। तापमपहरतीति तापापहृत् तत्पुरुषः । यामानि रातीति यामरं 'तत्पुरुषः ।। दुःखेन निर्भेदो यस्य तद् दुनिर्भेदं 'बहुव्रीहिः' न विद्यते अन्तरं यस्मिन् तत् निरन्तरं 'बहुव्रीहिः ।। दुर्निभेदं च तत् निरन्तरं च दुर्निभेदनिरन्तरं 'कर्मधारयः' । आन्तरं च तत् तमश्च आन्तरतमः : कर्मधारयः । दुनिर्भेदनिरन्तरं च तद् आन्तरतमश्च दुर्निर्भेदनिर० 'कर्मधारयः। दुनिर्भेदनिरन्तरान्तरतमो निर्नाशयतीत्येवंशीलं दुर्निर्मेद० 'तत्पुरुषः । पर्युल्लसन्ती लीला येषां ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org