________________
जिमस्तुतयः ]
स्तुतिचतुर्विंशतिका
૭૨
जातं - समूहो येभ्यस्ते तादृशाः सुमनसो विबुधाः पण्डिता वा तेषां सन्तानाः-समुदायास्तेषां कान्ताःस्वामिनस्तैरञ्चिताः- पूजिता 'अपारिजातसुमनःसन्तानकान्ताश्चिताः । इति पदार्थः ॥
'
अथ समासः --- विशेषेण द्विषन्तीति विद्विषः, न सन्ति विद्विषो येषां ते अविद्विषः । जिनेषु वृषाः जिन वृषा: । " वृषो धर्मे पशौ दासे, श्रेष्ठे शब्दे स्थितेतरे " इत्यनेकार्थसंग्रहः । रजसां राजिः रजोराजि:, तया रजोराज्या । मेदुरचासौ पारिजातश्च मेदुरपारिजातः, मेदुरपारिजातस्य सुमनांसि मेदुरपारिजात सुमनांसि, मेदुरपारिजातसुमनांसि च सन्तानाश्च मेदुरपारिजातसुमनःसन्तानाः, मेदुरपारि - जातसुमन: सन्तानः कान्ता मेदुरपारिजातसुमनः सन्तानकान्ता, तां मेदुरपारिजातसुमनः सन्तानकान्ताम् । कुन्दस्य समा कुन्दमा, कुन्दसमा त्विट् यस्याः सा कुन्दसमत्विट्, तया कुन्दसमत्विषा । लोकानां त्रयी लोकत्रयी, लोकत्रय्या राज्यं (लोकत्रयोराज्यं ) लोकत्रयीराज्यं प्राप्तं यैस्ते प्राप्तलोकत्रयीराज्याः । अरीणां जातं अरिजात, अपगतं अरिजातं येभ्यस्ते अपारिजाताः सुमनसां सन्तानाः सुमनः सन्तानाः, अपारिजाताञ्च ते सुमनःसन्तानःश्च अपारि०, अपारिजातसुमनःसन्तानानां कान्ता अपारिजातसुमनःसन्तानकान्ताः, अपारिजातसुमनःसन्तानकान्तैः अञ्चिता अपारिजातसुमनःसन्तानकान्ताञ्चिताः । पारिजात - सन्तानमन्दार- हरिचन्दन- कल्पाद्याः पञ्चापि कल्पवृक्षाः सन्ति । सुमनाः पण्डिते पुष्पे, देवे सज्जने समिती " इत्यनेकार्थः ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥
""
"
,
दे० व्या०- ते जीयासुरिति । ते जिना:- तीर्थंकराः जीयासुः इति संबन्ध: । 'जि' जये ' धातुः । 'जीयासुः' इति क्रियापदम् । के कर्तारः ? । 'जिनवृषाः ' जिना:- सामान्यकेवलिनः तेषु वृषाः - श्रेष्ठाः । " धर्मो वृषो वृषभेटो, वृषण्डो मूर्षको वृषः " इत्यनेकार्थः । किंविशिष्टा जिनवृषाः ! | 'अविद्विषः नास्ति विद्वेषो येषां ते तथा । तदुक्तं- 'वा' सीचंदणकप्पे, समाणे लेट्ठकंचणे" इति (श्रीअभयसूरिकृते महावीरस्तवे गा. ११)। जिना किं कुर्वाणाः ? | दधाना - धारयन्तः । काम् || मालां स्रजम् । किंविशिष्टां मालाम् || 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्ताम् 'रजसां - पुष्परेणूनां राजि:-श्रेणिस्तया मेदुरा:- पीवराः ये पारिजाताः - कल्पपादपाः तेषां सुमनः सन्ताना:पुष्पसमूहाः तैः कान्तां - भूषिताम् । " गुलुञ्छोऽथ रजः पौष्पं, परागोऽथ रसो मधु ” इत्यभिधानचिन्तामणिः (का० ४, श्लो० १९२) । संतान :-तरुविशेषः तस्य पुष्पाणि संतानकानि तेषां अन्ता-अवयवा यस्यां सा तथेति. प्राञ्चः । पुनः किंविशिष्टाः । चिताः व्याप्ताः । कथा ! | कीर्त्या यशसा । " श्लोकः कीर्तिर्धशोप्रभख्या " इत्यभिधानचिन्तामणिः (का० २, श्लो० १८७ ) । किंविशिष्टया कीर्त्या ? | 'कुन्दसमत्विषा ' कुन्द:कुसुमविशेषः तेन सदृशा त्विट् - कान्तिः यस्याः सा तथा । पुनः किंविशिष्टाः । । यत्तदोर्निस्याभिसम्बन्धादू ये जिनवृषाः प्राप्तलोकत्रयीराज्या अपि ईषत् - मनाक् न मेदुः -न मदं गतवन्तः । 'न मेतु: ' इति क्रियापदम् । के कर्तारः 2 | जिनवृषाः । किं कर्मतापन्नम् ? । ईषत् । किंविशिष्टा जिनवृषाः ? । 'प्राप्तलोकत्रयीराज्याः ' प्राप्तं लब्धं लोकत्रय्याः - त्रिभुवनस्य राज्य - साम्राज्यं यैस्ते तथा । पुनः किंविशिष्टाः १ । 'अपारिजातसुमनःसन्तानकान्ताञ्चिताः ' अपगता अरिजाताः शत्रुसमूहा येषां से अपारिजाताः ते च ते सुमनः सन्तानाश्वदेवसमूहास्तेषां कान्ता - योषितः ताभिः अञ्चिता:- पूजिताः 'वृन्दारकाः सुमनसखिदशा अमर्त्याः " इत्यभिधानचिन्तामणिः (का० २, श्लो० २ ) ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥
66
१ वासीचन्दनकल्पः समानो लेनुकाश्चने ।
Jain Education International
+
For Private & Personal Use Only
www.jainelibrary.org