________________
१७० स्तुतिचतुर्विशतिका
[१६ श्रीशान्ति खोर्विसर्गः (सा० स० १२४)। तथा च 'नीयासुः' इति सिद्धम् । अत्र ' जीयासुः' इति क्रियापदम् । के कर्तारः ! । ' जिनवृषाः ' जिनानां निनेषु वा वृषा:-श्रेष्ठाः जिनवृषा इत्यर्थः ।
" वृषः स्याद् वासके धर्मे, सौरभेये च शुक्रले ।
पुराशिमेदयोः शृङ्गयां, म्षकश्रेष्ठयोरपि ॥" इति विश्वः । कथंभूता जिनवृषाः ? । 'अविद्विषः' न सन्ति विद्विषो येषां ते अविद्विषः । जिनवृषा: किं कुर्वाणाः ? । दधानाः-बिभ्रतः । काम ? | माला-स्रजम् । कथम्भूतां मालाम् ? । 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां' रजसां-पुष्पपरागाणां राजिः-श्रेणिः तया मेदुराः-पीवरा ये पारिजातसुमनःसन्तानाः पारिजातस्यकल्पवृक्षस्य सुमनःसन्ताना:-पुष्पसमूहाः तैः कान्तां-मनोहरां । अन्ये तु पारिजातस्य कुसुमानि सन्तानकानि सन्तानककुसुमानि च तेषामन्ताः-अवयवा यस्यामिति व्याख्यान्ति । पुनः कथंभूता जिनवृषाः ।। चिता-व्याप्ताः । कया।की। कथंभूतया ! । 'कुन्दसमत्विषा' कुन्दः-पुष्पविशेषः तेन समाना स्विटप्रमा यस्याः सा तथा तया । ते इति ते के इत्याह-ये जिनवृषा ईषदपि-मनागपि न मेदुः-न मदं गतवन्त इत्यर्थः । मदी हर्षे' इति धातोः कर्तरि परस्मैपदे परोक्षे प्रथमपुरुषबहुवचनं उस् । द्विश्च । (सा० स० ७१०) इति धातोत्विम् । ' णादिः कित्' (ता० स० ७०९) इत्यनेन कित्वम् । लोप: पचा कित्ये चास्य' (सा०म० ७६२) इत्यनेन पूर्वस्य लोपः, अकारस्य चैकहसस्य एकारः। तथाच 'मेदुः' इति सिद्धम् । अत्र ' न मेदुः' इति क्रियापदम् । के कारः । ये । कथम् । न 'न' इति निषेधपदम् । कथम् ।। ईषदपि । कथंभूता ये ? । ' प्राप्तलोकत्रयीराज्याः । प्राप्त लब्धं लोकत्रय्याः लोकानां त्रयी तस्याः राज्यं-ऐश्वर्य यैस्ते तथा । पुनः कथंभूताः ।। ' अपारिजातसुमनःसन्तानकान्ताञ्चिताः ' अपरिजाताः-अपगतवैरिसमूहा ये सुमनःसन्ताना-देवसमूहाः तेषां कानां अन्ताः कान्ताः-शिरःप्रान्ताः तैः कान्ता स्त्रियो वा ताभिश्च अश्चिताः-पूजिताः । अपेर्गम्यमानत्वाद् ये एतादृशाः सन्तोऽपि न मेदुरिति मावः ॥२॥
सौ० वृ० ते जीयासुरिति । ते जिनवृषाः-तीर्थकरश्रेष्ठाः जीयासरित्यन्वयः। 'जीयासु।' इति क्रियापदम् । के कर्तारः । 'जिनवृषाः' । 'जीयासुः' जयन्तु । किविशिष्टा जिनवृषाः? 'ते' प्रसिद्धाः। प्रक्रान्तप्रसिद्धार्थस्तच्छब्दो यच्छब्दमपेक्षते । ते के जिनाः ? । प्राप्तलोकत्रीराज्या अपि ईषत् न मेदुसिवायदा ' इति क्रियापदम् । ये जिनाः न मेदुः मदं न प्रापुः । कथम् । 'ईषत ' स्तोकमात्रमपि । किविशिष्टा जिनवृषाः ?। 'प्राप्तलोकत्रयीराज्या अपि' सम्प्राप्तत्रिभुवनसाम्राज्या अपि । पुन: किविशिष्टा जिनवृषाः । 'अविद्विषः' गतशत्रवः । पुनर्जिनवृषाः किं कुर्वाणाः ? । 'दधानाः' धार्यमाणाः । कां कर्मतापन्नाम् ? । 'माला' कुसुमम्रजम् । किंविशिष्टां मालाम् ? । रजः-परागः तस्य राजी-श्रेणिः रजोराजी तया रजोराज्या क त्वा मेदरा:-पुष्टाः पारिजाताः - कल्पवृक्षास्तेषां सुमनसः - पुष्पाणि तेषां सन्ताना:-समूहास्तैः कृत्वा कान्ताः-मनोज्ञाः [अन्ता-मध्यभागा यस्याः सा] मेदुरपारिजातसुमन सन्तानकान्ता तां 'मेदरपारिजातसुमनःसन्तानकान्ताम्।[पुनः किंविशिष्टा जिनवषाशचिता-व्याप्ता: 1 कय?। कीर्त्या' यशसा। किंविशिष्टया कीर्त्या ? । कुन्दः-मुचकुन्दपुष्पाणि तैःसमा-सदृशी त्विट-कान्तिर्यस्याः सा कुन्दसमस्विट् तया 'कुन्दसमत्विषा' । पुनः किंविशिष्टा जिनवृषा: ? । अपगतं अरीणा-शवर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org