________________
१७२
स्तुतिचतुवैिशतिका
[ ११ श्री शान्ति
अमरैः सेव्या अमरसेव्या, तया अमरसेव्यया। जिनानां पतिर्जनपतिः, तस्य सं० हे जिनपते ! । श्रिया युक्तः शान्तिनाथः श्रीशान्तिनाथः, तस्य सं० हे श्रीशान्तिनाथ ।। स्मरस्य उब्रेकः स्मरोद्रेकः, न विद्यते स्मरोद्रको यस्य सः अस्मरोद्रेकः ( तस्य सं० हे अस्म० ) । उप द्रुतं चारित्रं यस्य स उपद्रुतः, तस्य सं० हे उपद्रुत ! | "तं स्थिरे चरित्रे च, ध्रौव्येऽनेकार्थभस्मनोः" इत्यनेर्थतिलकः । उप-समीपे । जातं रूपं यस्य जातरूप: । विगतं भयं यस्मात् स विभयः, तस्य सं० हे विभय ! । आरात् पापाद् रितो गतः आर्यः, तस्य सं० हे आर्य ! । हे धीर ! । इति प्रथमवृत्तार्थः ॥ १ ॥
शार्दूलविक्रीडितच्छन्दसा स्तुतिरियम् । तथा तनुशब्दः स्त्रीलिङ्ग दीर्घोऽप्यस्ति तम्वेति सिद्धम् । तनुमेवः साश्यमुक्तमतो मेरुरपि अमर सेन्यो भवति, नवपद्मरागरुचिरैः पादै राजितो भवति, उत्तप्तसुवर्णकान्तिर्भवति इत्युभयोः सादृश्यम् । इति छायार्थः ॥
वे० व्या०-- राजन्त्येति । हे श्रीशान्तिनाथ ! त्वं मां रक्ष- पालयेत्यन्वयः । ' रक्ष रक्षणे ' धातुः । ' रक्ष ' इति क्रियापदम् । कः कर्ता ? । स्वम् । कं कर्मतापन्नम् ? । मामू । हे 'जिताष्टापदाने ।' जितः - अधरीकृतः अष्टापदाद्रिः येन स तस्यामन्त्रणम् । “स्वर्गिकाञ्चनजो (तो) गिरिः" इत्यभिधानचिन्तामणिः (का०४, श्लो० ९८ ) । कया ! | तन्वा - शरीरेण । किं कुर्वस्था तन्वा ? । राजन्त्या - शोभमानया । कै: ? । चरणैः । " पदविश्वरणोऽस्त्रियाम्" इत्यमरः ( श्लो० १२१६) । किंविशिष्टैः पादैः ? । 'नवपद्मरागरुचिरैः नवं नूतनं यत् पनंकमलं तस्य रागो - रक्तिमा, यद्वा नवः प्रत्यग्रो यः पद्मरागमाणः तद्वद् रुचिरैः - मनोज्ञैः, माओिष्ठवर्णत्वात् । पुनः किं कुर्वत्या तन्वा ? | बिभ्रत्या धारयन्त्या । काम् । क्षमां तितिक्षाम् । “ तितिक्षा सहनं क्षमा " इत्यामधानचिन्तामणि: (का० ३, श्लो० ५५ ) । किंविशिष्टया तन्वा ? । 'द्रुतजातरूपविभया' द्रुतं विलीनं यत् जातरूपं सुवर्ण तदू विभा-कान्तिः यस्याः सा तया । पुनः किंविशिष्टया ? | 'अमरसेव्यया ' अमरा-देवाः तेषां सेवनाह सेव्या तया । हे 'अकोप !' न विद्यते कोप:- क्रोधो यस्य स तस्यामन्त्रणम्, ध्वस्तक्रोधन्वात् । हे आर्य ! हे स्वामिन् ! हे 'धीर !' धियं बुद्धिं राति-दत्ते इति धीरः, यद्वा परीषहायक्षोभ्यत्वेन धीरः स तस्यामन्त्रणम् । हे 'जिनपते ! ' जिना:- सामान्य केवलिनः तेषां पतिः - स्वामी यः स तस्यामन्त्रणं, तीर्थप्रवर्तकत्वात् । हे 'अस्मरोद्रेकोपद्भुत ! स्मरः कामः तस्य उब्रेक:- आधिक्यं तेन उपजुतः- पीडितः न भवति यः स तस्यामन्त्रणम् । हे 'जातरूप !' जातं प्रादुर्भूतं रूपं सौन्दर्ये यस्य स तस्यामन्त्रणम्, तीर्थंकरनामकर्मोदयात् ' हे 'विभय ।' विगतं भयं दरो यस्मात् स तस्यामन्त्रणं, शरीरादपि निःस्पृहत्वात् । हे 'अतन्वार्यधीः । अतन्वी - प्रचुरा आर्या-प्रशस्या धीः- बुद्धिर्यस्य स तस्यामन्त्रणं, प्रतिसमयं परहितचिन्तनात् । तानि सर्वाणि भगवतः सम्बोधनपदानि । अत्र भगवत्तनोरष्टापदाव्रिणा श्लेषः । सोऽपि नवपद्ममाणेरागरुचिरैः पादैः -मूलप्रदेशैः राजति द्रुतजातरूपविभवं बिभर्ति अमरसेव्यश्च स्यात् ॥ इति प्रथमवृत्तार्थः ॥ १ ॥
1
जिनवराणां विजयः
Jain Education International
ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजात सुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयीराज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥ २ ॥
— शार्दूल •
For Private & Personal Use Only
www.jainelibrary.org