________________
जिमस्तुतयः ]
तुमचतुविशतिका
१७१
"
०
अकोपः, तस्य संबोधनम् । हे आर्य ! - स्वामिन् ! अमरस्तु "स्यादर्य: स्वामिवैश्ययो" (लो० २६२८) इस्याह । हे वीर ! - धैर्ययुक्त ! यद्वा हे धीर ! - मेधाविन् । दधाति धियं इति धीरः । ' डुधाञ् घारणपोषणयोः ' ' सुसूषागृधिम्यः क्रन् ' ( उणा ० सू० ), 'घुमास्या ० ' ( पा० अ०६, पा०४, सू० ६६ ) इतीत्वम् । धियं ईरयति प्रेरयति वा । ' ईर गतिप्रेरणयोः ' ' कर्मण्यण् ' ( पा० अ० ३, पा०२, सू० १) । संशयविपयरहितां धियं राति-आदत्त इति वा ।' रा दाने ' ' आतोऽनुपसर्गे कः ' ( पा०अ० १, पा० २,सू०१ ), आतो लोप ( पा० अ०६, पा०४, सू० ६४ ) इत्यालोपः । हे ' जिनपते !' पाति-रक्षति इति पतिः ' पातेर्डतिः ' ( उणा० सू० ) इति इतिप्रत्ययः । ङित्त्वाट्टिलोपः । जिनानां पतिः जिनपतिः, तस्य संबोधनं क्रियते । हे 'अस्मरोद्रेकोपद्भुत ! ' स्मरस्य कामस्य उद्रेक - आधिक्यं तेन उपद्रुतः - खलीकृतः, न स्मरोद्रेकोपद्रुतः अस्मरोद्रेकोपद्रुतः, तस्य संत्रो० । हे ' जातरूप !' जातं प्रादुर्भूतं रूपं सौन्दर्यं यस्य स तथा तस्य संबोधनम् । हे 'विभय ।' विगतं मयं यस्य यस्माद् वा स तथा तस्य संबोधनं हे विमय ! | हे ' अतन्वार्यधीः ! ' अतनुः - अकृशा सा चासौ आर्या-प्रशस्या श्री: - बुद्धिः यस्य स तथा तस्य संबो० । ध्यायतीति धीः ‘ध्यै चिन्तायाम् ' 'ध्यायतेः (क्विपि ) संप्रसारणं (दीर्घता) च वक्तव्या' (सा० सू० १२५५) इति किप् संप्रसारणं च ॥ १ ॥
1
तस्य
सौ० ० -- यो मूर्तिमान् धर्मो भवति स सर्वप्राणिनां शान्तिकृदेव भवति । अनेन सम्बन्धेनाया षोडशमश्रीशान्तिनाथस्य स्तुतेरर्थो व्याख्यायते राजन्त्येति ।
,
श्रीशब्दः पूज्यार्थे श्रिया चतुस्त्रिंशदतिशयलक्ष्म्या युक्त ! हे श्रीशान्तिनाथ ! त्वं मां रक्ष इत्यन्वयः । ' रक्ष' इति क्रियापदम् । कः कर्ता ? । 'त्वं' भवान् । 'रक्ष' पालय । कं कर्मतापन्नम् ? | 'माम' | अन्यानि विशेषणानि भगवतः सम्बोधनरूपाणि व्याचक्षते । जितः निर्जितः अष्टापदं- सुवर्णे तस्य अद्रि:- पर्वत मेरुर्येन स जिताष्टापदादिः तस्य सं० हे 'जिताष्टापदादे! कया ? | 'तन्वा भूर्त्या । finaशष्टा तन्वा ? | 'राजन्त्या' शोभमानया । कैः कृत्वा ? । ' पादैः किरणैः । किंविशिष्टैः पादैः ? । नवं नवीनं यत् पद्मं कमलं तस्य रागः - रक्तिमा तद्वत् रुचिरा - मनोहरास्तैः 'नवपद्मरागरुचिरैः ' । हे 'अकोप !' अक्रोध !। पुनः किंविशिष्टया तन्वा ? | द्रुतं उत्तप्तं जातरूपं सुवर्ण तद्वद् विशिष्टा भा-प्रभा यस्याः सा दुतजातरूपविभा तया 'द्रुतजातरूपविभया । कथंभूतस्त्वम् । अतनुः - अकृशा आर्याप्रधाना धी:- बुद्धिर्यस्य स ' अतन्वार्यधीः । यद्वा संबोधनमपीदं हे 'अतन्वार्यधीः । । पुनः किंविशिष्टया तन्वा ! | 'बिभ्रत्या' धारयन्त्या । कां कर्मतापन्नाम् । 'क्षमां' क्षान्तिम् । पुनः किंविशिष्टया तन्वा ? | अमरा देवास्तैः सेव्या सेवनीया अमरसेव्या तया । जिना:- सामान्य केवलिनस्तेषां पतिर्जिनपतिः तस्य सं० हे 'जिनपते !' । स्मरः कामः तस्य उद्रेक आधिक्यं स नास्ति यस्य सः अस्मरोद्रेकः तस्य सं० हे 'अस्मरोद्रेक' ! हे 'उपद्भुत !' उप-समीपे द्रुतं चारित्रं यस्य (स) उपद्रुतः, तस्य सं० हे उपडत ! | जातं प्राप्तं रूपं परमात्मरूपं यस्य येन वास जातरूपः तस्य सं० हे 'जातरूप !' । विगतं भयं यस्मात् स विभयः तस्य सं० हे 'विभय !' हे 'आर्य!' हे श्रेष्ठ ! हे 'धीर !' धियं ईरयतीति धीरः, यद्वा धियं बुद्धिं राति ददातीति धीरः, यद्वा धिया बुद्धया राजते इति धीरः तस्य सं० हे धीर ! । त्वं मां रक्ष इति पदार्थः ॥
अथ समासः -- राजते सा राजन्ती, तया राजन्त्या । नवानि च तानि पद्मानि च नवद्मानि नवपद्मानां रागो नवपद्मरागः, नवपद्मरागवद् रुचिरा नवपद्मरागरुचिराः, तैर्नवपद्मरागरुचिरैः । अष्टापदस्थ अद्रिः अष्टापदाद्रिः, जितः अष्टापदादिर्येन स जिलाष्टापक्षाद्रः, तस्य सं० हे जिताष्टापद दे || नास्ति कोपो यस्य सः अकोपः, तस्य सं० ह अकोप ! । द्रुतं च तत् जातरूपं च द्रुतजातरूपं, दुतजातरूपवद् विभा यस्याः सा द्रुतजातरूपविभा, तया द्रुतजातरूपविभया । न तनुः अतनुः, आर्या चासौ धीश्च आर्यधीः अतनुः आर्य धीर्यस्य स अतन्वार्यधीः । बिभर्ति सा बिभ्रती, तथा बिभ्रत्या । सेवितुं योग्या सेव्या,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org