________________
T
१७० स्तुतिचतुर्विशतिका
[१६ श्रीशान्तिअष्टापदस्यादिः अष्टापदाधिः ' तत्पुरुषः। । जितोऽष्टापदाद्रिर्येन स जिताष्टा० 'बहुव्रीहिः । तत्सम्बो० हे जिताष्टा० । न विद्यते कोपो यस्य सः अकोपः, तत्सम्बो० हे अकोप! । 'बहुव्रीहिः' । द्रुतं च तत् जातरूपं च द्रुतजात. 'कर्मधास्यः । द्रुतनातरूपस्येव विमा यस्याः सा द्रुतजा० 'बहुव्रीहिः ।। तया द्रुतना० । अमरैः सेव्या अमरसेव्या ' तत्पुरुषः' । तया अमरसेव्यया । जिनानां पतिः जिनपतिः 'तत्पुरुषः । तत्सम्बो. हे जिनपते!। शान्तिश्चासौ नाथश्च शान्तिनाथः 'कर्मधारयः' । श्रियोपलक्षितः शान्तिनाथः श्रीशान्ति० 'तत्पुरुषः । तत्सम्बो० हे श्रीशान्ति । स्मरस्योद्रेका स्मरोद्रेकः ' तत्पुरुषः । स्मरोद्रेकेणोपद्रुतः स्मरोद्रे० ' तत्पुरुषः । न स्मरोद्रेकोपद्रुतोऽस्मरोद्रे तत्पुरुषः। तत्सम्बो० हे अस्मरो० । जातं रूपं यस्मिन् स जातरूपः 'बहुव्रीहिः' । तत्सम्बो० हे जातरूप ! । विगतं भयं यस्मात् स विभयः 'बहुवीहिः' । तत्सम्बो० हे विभय ! । न तनुः अतनुः 'तत्पुरुषः । अतनुश्वासौ आयो च अतन्वायर्या 'कर्मधारयः । अतन्वायर्या धीयस्य सः अतन्वार्यधीः 'बहुव्रीहिः । । तत्सम्बो० हे अत० ॥ इति काव्यार्थः ॥ १॥
सि० १०-राजन्त्येति । शान्त्यात्मकत्वात् शान्तिकर्तृकत्वाद् वा गर्भस्थेऽस्मिन् पर्वोत्पन्नाशिवस्य शान्ति तेति वा शान्तिः, स चासौ श्रियोपलक्षितो नाथः श्रीशान्तिनाथः, तस्य संबोधनं हे श्रीशान्तिनाथ ! त्वं मां रक्ष-त्रायस्वेत्यर्थः । 'रक्ष रक्षणे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । अत्र · रक्ष' इति क्रियापदम् । कः कर्ता ? । त्वम् । कं कर्मतापन्नम् ? । माम् । अवशिष्टानि श्रीशान्तिनाथस्य संबोधनानि, तेषां व्याख्या यथा-हे 'जिताष्टापदाद्रे !' जितः-अवगणितः अष्टापदाद्रिः-कनकशैलो येन स तस्य संबोधनम् ।
" अष्टापदं स्यात् कनके, सारीणां फलकेऽपि च ।
अष्टापदश्च शरभे चन्द्रमल्ल्यां च मर्कटे॥" इति विश्वः । कया! । तन्त्रा-मूर्त्या करणभूतया । किं कुर्वत्या तन्वा ! । राजन्त्या-विराज. मानया ।कैः कृत्वा ! । पादैः-चरणैः प्रत्यन्तपर्वतैश्च । " पादा रश्म्यघितुर्याशाः", " पादाः प्रत्यन्तपर्वताः " इत्यमरः । श्लो०६४६)। नवपद्मरागरुचिरैः' नव-नवीनं यत् पञ-कमलं शोणरत्नं वा, "शोणरत्नं लोहितकं (क:), पद्मरागोऽय मौक्तिकम्" इत्यमरः (श्लो० १८९१), तस्य रागो-रक्तिमा तद्वद् रुचिरैः चारुभिः, पादयोः रक्तवर्णत्वादिति भावः । भगवत्पक्षे पादैरित्यत्र बहुवचनं विचारणीयमिव प्रतिभाति । पुनः किं कुर्वत्या तन्वा ? । बिभ्रत्या-दधत्या । काम् ? । क्षमा-क्षान्तिम् । कथंभूतया तन्वा ? | 'द्वतजातरूपविभया' द्रुतं-विलीनं यजातरूपं-सुवर्ण तद्वद् विभा-प्रभा यस्याः सा तथा तया । " चामीकरं जातरूपं, महारजतकाश्चने " इत्यमरः (श्लो. १८९६ )। पुनः कथंभूतया ! । ' अमरसेन्यया ' अमरैः-देवैः सेव्यया-सेवनीयया । तन्वा जिताष्टापदाद्रे ! इत्यनेन तनुमेोः साधर्म्यमूचे, तेन तनुविशेषणामि मेरोरपि संभवन्ति । तथाहि-मेरुरपि ' नवपद्मरागरुचिरैः ' नवाः-प्रत्यग्रा ये पद्मरागा-लोहितमणयस्तैः रुचिरैः-चारुभिः पादैः-प्रत्यन्तपर्वतैः रानमानो भवति, तथा क्षमां-पृथिवीं च बिभ्रद् मवति, अमरसे. इयोऽपि भवति, तथा द्रुतजातरूपविमोऽपि च स्यात् इति । हे ' अकोप !' नास्ति कोपः-क्रोधो यस्य सः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org