________________
१६ श्रीशान्तिजिनस्तुतयः अथ श्रीशान्तिनाथस्य स्तुतिः--
राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा
द्रेऽकोप ! द्रुतजातरूपविभया तन्वाऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरोद्रेकोपद्रुत ! जातरूप ! विभयातन्वायधी ! रक्ष माम् ॥ १॥
-शार्दूल. ज० वि०-राजन्त्येति । हे श्रीशान्तिनाथ ! श्रियोपलक्षितशान्तिनाथ ! श्रीशान्तिनाथ जिन ! त्वं मां रक्ष-त्रायस्व इति क्रियाकारकसम्बन्धः । अत्र 'रक्ष' इति क्रियापदम् । कः कर्ता ? ' त्वम् ।।कं कर्मतापनम् ? ' माम् ।। अवशिष्टानि श्रीशान्तिनाथस्य सम्बोधनानि, तेषां व्याख्या यथा-हे 'जिताष्टापदाद्रे ! ' जितः-तुलितोऽष्टापदाद्रिः-कनकशैलो येन स तथा, तत्सम्बो हे जिता० । कया ? 'तन्या' मूर्त्या करणभूतया । किं कुर्वन्त्या तन्वा ? राजन्त्या' विराजमानया । कैः कृत्वा ' पादैः । अङ्किभिः । कथंभूतैः पादः ? 'नवपद्मरागरुचिरैः' नवस्य पद्मस्य यो रागः-रक्तिमा तद्वद् रुचिरैः-चारुभिः । पुनः किं कुर्वन्त्या तन्वा ? ' विभ्रत्या' दधत्या। कां कर्मतापन्नाम् ? 'क्षमा' शान्तिम् । कथंभूतया तन्वा ? ' द्रुतजातरूपविभया' द्रुतं-उत्तप्तं यत् जातरूपं-कनकं तद्वद् विभा-प्रभा यस्याः सा तथा तया। पुनः कथं 'अमरसेव्यया' अमरैः-देवैः सेव्यया-सेवनीयया। तन्वा जिताष्टापदादे ! इत्यनेन तनुमेोः साधर्म्यमूचे, तेन तनुविशेषणानि मेरोरपि मिलन्ति । तथाहि-मेरुरपि नवपद्मरागरुचिरैः नवाः-प्रत्यग्रा ये पद्मरागा-लोहिताख्या मणिविशेषास्तै रुचिरैः-चारुभिः पादैः-प्रत्यन्तपर्वतै राजमानो भवति, तथा क्षमा--पृथिवीं च विभ्रद् भवति, तथा अमरसेव्योऽपि भवति, तथा द्रुतजातरूपविभोऽपि च स्यादिति । हे 'अकोप!' कोपरहित ! । हे ' आर्य ! ' स्वामिन् ! । हे 'धीर !' धैर्ययुक्त ! यद्वा हे 'धीर !' मेधाविन् ! । हे 'जिनपते ! ' जिनेन्द्र ! । हे ' अस्मरोद्रेकोपद्रुत!' स्मरस्य-कन्दर्पस्य उद्रेक:-वेगः तेनोपद्रुतःखलीकृतः, न स्मरोद्रेकोपद्रुतस्तस्यामन्त्रणं हे अस्मगेद्रकोपद्रुत! । हे ' जातरूप! ' प्रादुर्भूतसौग्दर्य ! । हे 'विभय ! ' विगतत्रास !। हे अतन्वार्यधीः !' अतनुः- अकृशा आर्या-प्रशस्या धी:-बुद्धिर्यस्य स तथा, तत्संयो० हे अतन्वार्यधीः । इदं प्रथमान्तविशेषणमपि ॥
अथ समासः--नवं च तत् पद्मं च नवपद्म 'कर्मधारयः' । नवपक्षस्य रागो नवप. मरागः ' तत्पुरुषः ।। नवपद्मरागवद् रुचिरा नव० ' तत्पुरुषः । तैनवपद्म ० । मेरुपक्षे तु नवाश्च ते पद्मरागाश्च नव० 'कर्मधारयः' । नवपरागः रुचिरा नव तत्पुरुषः । तैर्नव० ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org